वाचस्पत्यम्
ब(व)हुदुग्ध || पु० ब(व)हूनि दुग्धानीव चूर्णानि शुभ्रवर्णत्वात् यस्य । १ गोधूमे राजनि० । २ प्रचुरक्षीरवत्यां ३ गवि, स्त्री हेमच० । वा कप् अत इत्त्वम् । बहुदुग्धिका स्नुही- वृक्षे स्त्री शब्दच० ।
शब्दकल्पद्रुमः
बहुदुग्धः || पुं, (बहूनि दुग्धानि अपक्वावस्थायां यस्य । यद्वा, बहूनि दुग्धानीव शुक्लवस्तून्यस्य ।)
गोधूमः । इति राजनिर्घण्टः ॥