संस्कृत-शब्दकोशः

बहुप्रज बहुप्रद

बहुप्रतिज्ञ

वाचस्पत्यम्

बहुप्रतिज्ञ ||‍ पु० ७ ब० । अनेकविषयकप्रतिज्ञायुक्ते व्यवहारे यथा मदीयं रूपकमनेन गृहीतं, सुवर्णञ्चास्य, हस्ते निक्षिप्तं न ददाति, मदीयं क्षेत्रमपहरतीत्ये बमादीनां पक्षत्वमिष्यत एव किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येव “बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् । कामं तदपि गृह्णीयात् राजा तत्त्वबुन्भुत्सया” कात्यायनोक्तेः मिता०


शब्दकल्पद्रुमः

बहुप्रतिज्ञः || त्रि (बह्व्यः प्रतिज्ञाः यस्मिन् ।)
अनेक-पदसङ्कीर्ण-पूर्ब्बपक्ष-विशिष्ट-व्यवहारः । यथा । “यत्तु अनेकपदसङ्कीर्णः पूर्ब्बपक्षो न सिद्ध्यतीति । तत्र यद्यनेकवस्तुसङ्कीर्ण इत्युच्यते तदा न दोषः । मदीयमनेन हिरण्यं वासो रूपकादि वापहृतमित्येवंविधस्यादुष्टत्वात् । ऋणादानपदसङ्करे पक्षाभास इति चेत् तदपि न मदीया रूपका अनेन वृद्ध्या गृहीताः सुवर्णञ्चास्य हस्ते निक्षिप्तं मदीयं क्षेत्रम- पहरति चेत्यादीनां पक्षत्वमिष्यते एव । किन्तु क्रियाभेदात् क्रमेण व्यवहारो न युगपदित्येतावत् । यथाह कात्यायनः । ‘बहुप्रतिज्ञं यत् कार्य्यं व्यवहारेषु निश्चितम् । कामन्तदपि गृह्णीयाद्राजा तत्त्वबुभुत्सयेति ॥’ तस्मादनेकपदसङ्कीर्णः पूर्ब्बपक्षो युगपन्न सिध्य- तीति तस्यार्थः ।” इति मिताक्षरा ॥ अनेक- प्रतिज्ञायुक्ते, त्रि ॥



Correction: