संस्कृत-शब्दकोशः

बहुरुहा बहुरूपक

बहुरूप

वाचस्पत्यम्

ब(व)हुरूप ||‍ पु० ६ ब० । १ सर्जरसे (धुना) अमरः । २ शिवे, ३ विष्णौ ४ सरटे ५ कामे मेदि० ६ केशे ७ ब्रह्मणि शब्दर० । ८ बुद्धभेद त्रिका० ९ नानारूपवति त्रि०


शब्दकल्पद्रुमः

बहुरूपः || पुं, (बहूनि रूपाणि यस्य ।)
सर्जरसः । इत्यमरः । २ । ६ । १२८ ॥ शिवः । विष्णुः । कामदेवः । सरटः । इति मेदिनी । के, २७ ॥ ब्रह्मा । केशः । इति शब्दरत्नावली ॥ (रुद्रः । यथा, भागवते । ६ । ६ । १८ । “अजैकपादहिव्रघ्नो बहुरूपो महानिति ॥” प्रियव्रतपुत्त्रस्य मेधातिथेः पुत्त्रभेदो वर्षभेदश्च । यथा, भागवते । ५ । २० । २५ । “तस्यापि प्रैय- व्रत एवाधिपतिर्नाम्ना मेधातिथिः सोऽपि विभज्य सप्त वर्षाणि पुत्त्रनामानि तेषु स्वात्म- जान् पुरोजव-मनोजव-पवमान-धूम्रानीक- चित्ररेफ बहुरूप-विश्वाधारसंज्ञन् ।” इति ॥)
बुद्धविशेषः । इति त्रिकाण्डशेषः ॥ नानारूप- युक्ते, त्रि ॥ (यथा, मनुः । १ । ४९ । “तमसा बहुरूपेण वेष्टिताः कर्म्महेतुना ॥”)



Correction: