शब्दकल्पद्रुमः
बहुला || स्त्री (बहूनर्थान् लाति या । बहु + ला + क । टाप् ।)
नीलिका । एला । (यथा, “एला स्थूला च बहुला पृथ्वीका त्रिपुटापि च । भद्रैला बृहदेला च चन्द्रबाला च निष्कुटिः ॥” इति भावप्रकाशस्य पूर्ब्बखण्डे प्रथमे भागे ॥)
गौः । इति मेदिनी । ले, ११७ ॥ देवीविशेषः । यथा, —
“दृष्टा सा तेन मुनिना निःसृत्य रविमण्डलात् । बहुला ह्यागता तूर्णं प्रस्थं मानसभूभृतः ॥ प्रत्यहं तत्र सावित्री गायत्त्री वहुला तथा । सरस्वती च द्रुपदा पञ्चैता मानसाचले ॥” इति कालिकापुराणे । २३ अध्यायः ॥ (नदीभेदः । यथा, मार्कण्डेये । ५७ । ३९ । “चीनाश्चैव तुखाराश्च बहुला वाह्यतो नराः ॥” स्वनामख्याता उत्तमराजपत्नी । यथा, तत्रैव । ६९ । ६ । “बाभ्रव्यां बहुलां नाम उपयेमे स धर्म्मवित् । उत्तानपादतनयः शचीमिन्द्र इवोत्तमः ॥”)
शब्दकल्पद्रुमः
बहुलाः || स्त्री कृत्तिकानक्षत्रम् । नित्यबहुवचना- न्तोऽयं शब्दः । इति मेदिनी । ले, ११७ ॥