वाचस्पत्यम्
बहुवचन || न० बहुत्वं वक्ति वच—ल्यु । “द्व्येकयोद्विवचनैक- वचने बहुषु बहुवचनम्” पा० उक्ते बहुत्वबोधके जस्- प्रभृतौ सुब्विभक्तौ झिप्रभृतौ २ तिङ्विभक्तौ च ।