वाचस्पत्यम्
ब(व)हुवीर्य्य || पु० ६ ब० । १ विभीतके, (वयडा) जटा० । २ तण्डुलीयशाके, (नटेशाक) ३ शाल्मलिवृक्षे ४ मरुवके च राजनि । ५ भूम्यामलक्यां स्त्री राजनि० ।
शब्दकल्पद्रुमः
बहुवीर्य्यः || पुं, (बहु वीर्य्यं तेजो यस्य ।)
विभी- तकः । इति जटाधरः ॥ तण्डुलीयशाकः । शाल्मलिवृक्षः । मरुवः । इति राजनिर्घण्टः ॥