वाचस्पत्यम्
ब(व)हुशल्य || पु० ६ ब० । १ रक्तखदिरे राजनि० । २ अनेककीलयुक्ते त्रि० ।
शब्दकल्पद्रुमः
बहुशल्यः || पुं, (बहु शल्यं यस्य ।) रक्तखदिरः । इति राजनिर्घण्टः ॥ अनेकशल्ययुक्ते, त्रि ॥