संस्कृत-शब्दकोशः

बाडिङ्गन बाण

बाढ

शब्दकल्पद्रुमः

बाढं || क्ली (बाह प्रयत्ने + क्तः । “क्षुब्धस्वान्त- ध्वान्तेति ।” ७ । २ । १८ । इति निपातनात् साधुः ।)
अतिशयः । (यथा, कथासरित्- सागरे । २४ । ६८ । “बाढं मया सा नगरी दृष्टा विद्यार्थिना सता ॥”)
प्रतिज्ञा । इत्यमरः । ३ । ३ । ४४ ॥ बाढमित्य- व्ययमपीति वृद्धाः । इति भरतः ॥ “बाढं त्रिषु दृढे क्लीवमनुमत्यामथ त्रिषु ॥” इति नानार्थरत्नमाला ॥ (सत्यम् । यथा, रघुः । १९ । ५२ । “बाढमेषु दिवषेषु पार्थवः कर्म्म साधयति पुत्त्रजन्मने ॥”)



Correction: