संस्कृत-शब्दकोशः

बाण बाणदण्ड

बाणगङ्गा

वाचस्पत्यम्

बाणगङ्गा ||‍ स्त्री रावणबाणनिर्भेदेन प्रवृत्तायां नद्यात् “सो- मेशाद्दक्षिणे मागे बाणेनाभिविभिद्य वै । रावणेन प्रक- टिता जलधारातिपुण्यदा । बाणगङ्गेतिविख्याता या स्नानादघहारिणी” वराहपु० ।


शब्दकल्पद्रुमः

बा(वा)णगङ्गा || स्त्री (बाणेन प्रकटिता गङ्गा नदी- विशेषः ।)
रावणबाणनिर्भिन्नसोमेश्वरगिरि- भवनदीविशेषः । यथा, —
“सोमेशाद्दक्षिणे भागे बाणेनाद्रिं विभिद्य वै । रावणेन प्रकटिता जलघारातिपुण्यदा । बाणगङ्गेति विख्याता या स्नानादघहारिणी ॥ स्नात्वा तु बाणगङ्गायां दृष्ट्वा बाणेश्वरं विभुम् । गङ्गास्नानफलं प्राप्य मोदते देववद्दिवि ॥” इति वाराहे सोमेश्वरादिलिङ्गमहिमावमुक्ति- क्षेत्रमहिमा त्रिवेण्यादिमहिमा नामाध्यायः ॥



Correction: