शब्दकल्पद्रुमः
बार्हस्पत्यः || पुं, (बार्हस्पत्यं बृहस्पतिप्रोक्तं शास्त्रं अधीयमानत्वेनास्त्यस्येति । अर्श आदित्वा- दच् ।)
नास्तिकः । यथा, हेमचन्द्रः । “स्याद्वादवाद्यार्हतः स्याच्छून्यवादी तु सौगतः । नैयायिकस्त्वक्षपादो योगः सांख्यस्तु कापिलः ॥ वैशेषिकः स्यादौलूक्यो बार्हस्पत्यस्तु नास्तिकः । चार्व्वाको लौकायतिकश्चैते षडपि तार्किकाः ॥” (बृहस्पतिना प्रोक्तमिति । बृहस्पति + ण्यः ।)
नीतिशास्त्रे, क्ली । इति केचित् ॥ बृहस्पतेरिद- मिति वा । बृहस्पति + “दित्यदित्यादित्यपत्यु- त्तरपदाण् ण्यः ।” ४ । १ । ८५ । इति ण्यः ।)
बृहस्पतिसम्बन्धिनि, त्रि ॥