संस्कृत-शब्दकोशः

बार्हिण बालक

बाल

वाचस्पत्यम्

बाल ||‍ पु० न० बालाख्ये १ गन्धद्रव्यभेदे । २ मूर्खे ३ शिशौ मेदि० । “बाल आषोडशात् बर्षात्” स्मृतिपरिभाषित ४ षोडश- वर्षावधिकवंयस्के च त्रि० । ५ केशे पु० अमरः । अर्श आदित्वादस्त्यर्थे अच् । ६ अश्वशिशौ अमरः ७ अश्वबालधौ ८ हस्तिबालधौ ९ नारिकेले मेदि० १० पशुपुच्छे च पु० हेमच० । मत्स्यभेदे शब्दच० । “पञ्चवर्षो गता कालः” हेम० उक्ते पञ्चवयस्कपदे । “बालाचतुष्टयं शीतं मधुरं बलकास्न्तिकृत् । क्षिग्तं ग्राहि समीरास्रपित्तास्रक्षयनाशनम्” । “बलामूलत्वच- श्रूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमे- तन्न संशयः । हरेश्महाबला कृच्छ्रं भवेद्वातानुलोमनी । हन्यादिति वलामोहं पयसा सितया सह” मावप्र० । यालादेरवधिमाह सुश्रुतः “वयस्तु त्रिविधं बाख्यं मध्यमं बार्द्धकं तथा । ऊनषोडशवर्षस्तु नरो बालो निगद्यते । त्रिबिगः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्नभुक् । दुग्धाशी वर्षपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् । तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधामतः” । “यथोक्त बिधिना बालं मासि षष्टेऽष्टमेऽपि च । अन्नं सम्प्राशयेत्किञ्चित् ततस्तद्वर्द्धयन् क्रमात्” अथ बालस्य परिचय्याविधिः । “बालमङ्के सुखन्दध्या नचैनन्तर्जयेत् क्वचित् । सहस्म बोधयेन्नैव नायोग्यं मुपद्वेशयेत्” अयोन्यं उपवेशनासमर्थम् । “नाकृष्य स्थापयेत् क्रोडे न क्षिप्रं शयने क्षिपेत् । रोदयेन्न क्वचित् कार्य्ये विधि- माबश्यकं विना” आवश्यको विधिः भेषज दान तैला- भ्यङ्गोद्वर्त्तनादिः । “तच्चित्तमनुवर्त्तेत तं सदैवासु- मोदयेत् । निम्नीञ्चेरवानतश्चापि रक्षेद् बालं प्रयत्रतः” तालस्य स्वभावहितान्याह । “तभ्यङ्कोद्वर्त्तनं धानं नेत्रयोरञ्जनन्तया । बलनं सद् यत् तच्च तत्रा गृहद्धत्वेप- नम् । जन्मप्रभृतिपथानि थाणस्येतानि सर्कवा” बालस्य कवलादेः समयमाह । “कवलः पञ्चमाद्वर्षादष्ट- मान्तस्य कर्म च । विरेकः षोडशाद्वर्षाद्विंशतेश्चैव नैथु- नम्” । ततः पृथ्वा० इमनिच् वालिमन् बालभावे पु० पक्षे ष्यञ् बाल्य तत्रार्थे न० ।


शब्दकल्पद्रुमः

बा(वा)लः || पुं, (बलति मस्तकं रक्षति संवृणोतीति वा । बल + णः ।)
शिरोभवाच्छादनविशेषः । चुल इति भाषा । तत्पर्य्यायः । चिकुरः २ कचः ३ केशः ४ कुन्तलः ५ कुञ्जरः ६ शिरोरुहः ७ शिरसिरुट् ८ शिरोरुट् ९ शिरजः १० । इति शब्दरत्नावली ॥ घोटकशिशुः । तत्पर्य्यायः । किशोरः २ । इत्यमरः ॥ अश्वबालधिः । करि- बालधिः । नारिकेलः । इति मेदिनी । ले, ३९ ॥ पञ्चवर्षीयहस्ती । यथा, —
“पञ्चवर्षो गजो बालः स्यात् पोतो दशवर्षकः ॥” इति हेमचन्द्रः ॥ (यथा, भागवते । ९ । १० । ६ । “यो लोकवीरसमितौ धनुरैशमुग्रं सीतास्वयंवरगृहे त्रिशतोपनीतम् । आदाय बालगजलील इवेक्षुयष्टिं सज्यीकृतं नृप ! विकृष्य बभञ्ज मध्ये ॥”)
पुच्छः । इति शब्दरत्नावली ॥ (यथा, कुमारे । १ । ४८ । “लज्जा तिरश्चां यदि चेतसि स्या- दसंशयं पर्व्वतराजपुत्त्र्याः । तं केशपाशं प्रसमीक्ष्य कुर्य्यु- र्बालप्रियत्वं शिथिलं चमर्य्यः ॥”)
मत्स्यविशेषः । इति शब्दचन्द्रिका ॥


शब्दकल्पद्रुमः

बालं || क्ली पुं, (बलतीति । बल + णः ।)
गग्धद्रव्यविशेषः । बाला इति ख्यातम् । इति मेदिनी ॥ तत्पर्य्यायः । ह्रीवेरम् २ बर्हिष्ठम् ३ उदीच्यम् ४ केशनामकम् ५ अम्बुनामकम् ६ । इत्यमरः । २ । ४ । १२२ ॥ ह्रिवेरम् ७ वर्हि- ष्ठम् ८ । इति भरतः ॥ बालकम् ९ बारिदम् १० इति शब्दरत्नावली ॥ वरम् ११ ह्रीवेरकम् १२ केश्यम् १३ वज्रम् १४ पिङ्गम् १५ ललना- प्रियम् १६ कुन्तलोशीरम् १७ कचामोदम् १८ । अस्य गुणाः । शीतलत्वम् । तिक्तत्वम् । पित्त- वान्तितृषाज्वरकुष्ठातिसारश्वासव्रणनाशित्वम् । केशहितत्वञ्च । इति राजनिर्घण्टः ॥ अपि च । “बाला वाट्यालिका वाट्या सैव वाद्यालिका- पि च । महाबला पीतपुष्पा सहदेवी च सा स्मृता ॥ ततोऽन्यातिबला ऋष्यप्रोक्ता कङ्कतिकासह । गाङ्गेरुकी नागबला झसा ह्रस्वा गवेधुका ॥ अस्य गुणाः । बलाचतुष्टयं शीतं मधुरं बलकान्तिकृत् । स्निग्धं ग्राहि समीरास्रपित्तास्रक्षतनाशनम् ॥ बालाचतुष्टयविशेषगुणाः । बलामूलत्वचश्चूर्णं पीतं सक्षीरशर्करम् । मूत्रातिसारं हरति दुष्टमेतन्न संशयः ॥ हरेन्महाबला कृच्छ्रं भवेद्वातानुलोमनी । हन्यादतिबला मोहं पयसा सितया सह ॥” इति भावप्रकाशः ॥


शब्दकल्पद्रुमः

बालः || त्रि (बलतीति । बल प्राणने + “ज्वलि- तिकसन्तेभ्यो णः ।” ३ । २ । १४० । इति णः ।)
मूर्खः ॥ (यथा, मनुः । २ । १५३ । “अज्ञो भवति वै बालः पिता भवति मन्त्रदः । अज्ञं हि बालमित्याहुः पितेत्येव तु मन्त्रदम् ॥” “वैशब्दोऽवधारणे अज्ञ एव बालो भवति नत्वल्पवयाः ।” इति तट्टीकायां कुल्लूकभट्टः ॥)
अर्भकः । इति मेदिनी । ले, ४० ॥ द्बितीयस्य पर्य्यायः । माणवकः २ । इत्यमरः । २ । ६ । ४२ ॥ बालकः ३ माणवः ४ किशोरः ५ बटुः ६ मुष्टि- न्धयः ७ बटुकः ८ किशोरकः ९ । इति शब्द- रत्नावली ॥ पाकः १० गर्भः ११ हितकः १२ पृथुकः १३ शिशुः १४ शावः १५ अर्भः १६ डिम्भकः १७ डिम्बः १८ । इति राजनिर्घण्टः ॥ स तु षोडशवर्षपर्य्यन्तः प्रथमवयस्कः । यथा, —
“आषोडशाद्भवेद्बालस्तरुणस्तत उच्यते । वृद्धः स्यात् सप्ततेरूर्द्ध्वं वर्षीयान् नवतेः परम् ॥” इति स्मृतिः । इति भरतः ॥ तस्य रक्षकाः सर्व्वदेवताः । यथा, —
“अनाथबालवृद्धानां रक्षकाः सर्व्वदेवताः ॥” इति ब्रह्मवैवर्त्ते श्रीकृष्णजन्मखण्डे ८६ अध्यायः ॥ अथ बालस्य परिचर्य्याविधिः । “बालमङ्के सुखं दध्यान्न चैनं तर्ज्जयेत् क्वचित् । सहसा बोधयेन्नैव नायोग्यमुपवेशयेत् ॥” अयोग्यमुपवेशनासमर्थम् । “नाकृष्य स्थापयेत् क्रोडे न क्षिप्रं शयने क्षिपेत् । रोदयेन्न क्वचित् कार्य्य विधिमावश्यकं विना ॥” आवश्यको विधिः भेषजदानतैलाभ्यङ्गोद्बर्त्तनादि ॥ तच्चित्तमनुवर्त्तेत तं सदैवानुमोदयेत् । संसेवितमना एकं नित्यमेवाभिवर्द्धयेत् ॥ बालातपतडिद्वृष्टिधूमानलजलादितः । निम्नोच्चस्थानतश्चापि रक्षेद्बालं प्रयत्नतः ॥” बालस्य स्वभावाद्धितान्याह । “अभ्यङ्गोद्वर्त्तने स्नानं नेत्रयो रञ्जनं तथा । वसनं मृदु यत्तच्च तथा मृद्बनुलेपनम् ॥ जन्मप्रभृति पथ्यानि बालस्यैतानि सर्व्वथा ॥” बालस्य कवलादेः समयमाह । “कबलः पञ्चमाद्वर्षाद्बिंशतेश्चैव मैथुनम् ॥” बाल्यादेरवधिभाह सुश्रुतः । “वयस्तु त्रिविधं बाल्यं मध्यमं वार्द्धकं तथा । ऊनषोडशवर्षस्तु नरो बालो निगद्यते ॥ त्रिविधः सोऽपि दुग्धाशी दुग्धान्नाशी तथान्न- भुक् ॥ दुग्धाशी वषपर्य्यन्तं दुग्धान्नाशी शरद्द्वयम् । तदुत्तरं स्यादन्नाशी एवं बालस्त्रिधा मतः ॥ मध्ये षोडशसप्तत्योर्मध्यमः कथितो बुधैः । चतुर्धा मध्यमं प्राहुर्युवा द्वात्रिंशतो मतः ॥ चत्वारिंशत्समा यावत्तिष्ठेद्वीर्य्यादिपूरितः । ततः क्रमेण क्षीणः स्याद्यावद्भवति सप्ततिः ॥ वीर्य्यादीत्यादिशब्देन रसादिसर्व्वधात्विन्द्रिय- बलोत्साहा उच्यन्ते । क्षीणः सर्व्वधात्विन्द्रिय- बलोत्साहैर्हीनः । ततस्तु सप्तवेरूर्द्ध्वं क्षीणधातुरसादिकः ॥ क्षीयमाणेन्द्रियबलः क्षीणरेता दिने दिने । बलीपलितखालित्ययुक्तः कर्म्मसु चाक्षमः ॥ कासश्वासादिभिः क्लिष्टो वृद्धो भवति मानवः ॥ बाल्ये विवर्द्धते श्लेष्मा पित्तं स्यान्मध्यमाब्दिकम् । वार्द्धक्ये वर्द्धते वायुर्विचार्य्यैतदुपक्रमेत् ॥ उपक्रमेत् चिकित्सेत् ॥ तन्त्रान्तरे तु । बाल्यं वृद्धिश्छविर्मेधा त्वग्दृष्टिः शुक्रविक्रमौ । बुद्धिः कर्म्मेन्द्रियं रेतो जीवितं दशतो हसेत् ॥” इति भावप्रकाशः ॥ (अथ बालाद्यशौचम् । “नवमादिमासजातबालस्याशौचकालाभ्यन्तर- मरणे मातापित्रोरस्पृश्यत्वं युक्तम् । तदेव स्वजात्युक्तजननाशौचम् । ज्ञातीनान्त्वशौचं नास्ति । नवमादिमासमृतजातयोस्तु कन्या- पुत्त्रयोः पित्रादि सपिण्डानां मातुश्च जनना- शौचम् । तच्च ब्राह्मणानां दशाहं शूद्राणां मासः । पुत्त्रजन्मनि पितुः सचेलस्नानं पुत्त्रमुख- दर्शनात् परं पुनः सचेलस्नानम् । पुत्त्रकन्याजनने ब्राह्मण्या दशाहानन्तरं लौकिककर्म्माधिकार ॥ पुत्त्रजनने ब्राह्यण्या विंशतिरात्रोत्तरस्नानात् वैदिककर्म्माधिकारः । कन्याजनने तु ब्राह्मण्या मासोत्तरस्नानात् वैदिककर्म्माधिकारः । शूद्रायाः कन्यापुत्त्रजनने त्रयोदशाहोत्तरं लौकिककर्म्माधिकारः वैदिककर्म्मणि तु मासो- त्तरस्नानात् शुद्धिः । एतत् सर्व्वं कन्यापुत्त्रयो- र्विद्यमानत्वे बोध्यम् ॥ जननाशौचोत्तरं षण्मासाभ्यन्तरमजातदन्त- मरणे मातापित्रोरेकाहः । सपिण्डानान्तु सद्यः शौचम् ॥ षण्मासाभ्यन्तरेऽपि जातदन्तस्य मरणे मातापित्रोस्त्र्यहः । सपिण्डानामेकाहः । षण्मासोपरिद्विवर्षपर्य्यन्तं पित्रोस्त्य्रहः । सपिण्डा- नामकृतचूडे एकाहः कृतचूडे त्र्यहः । द्बिवर्षो- परिमासत्रयाधिकषड्वर्षपर्य्यन्तमनुपनीतबाल- कस्य मरणे मातापित्रादिसपिण्डानां त्र्यहः ॥ तन्मध्येऽप्युपनीतस्य मरणे दशाहः । मासत्रया- धिकषड्वर्षोपरि मरणे पित्रादिसपिण्डानां दशाहः ॥ शूद्रस्य षण्मासाभ्यन्तरे अनुत्पन्नदन्तस्य मरणे त्रिरात्रम् । उत्पन्नदन्तस्य पञ्चाहः । षण्मा- सोपरिद्बिवर्षाभ्यन्तरे अकृतचूडमरणे पञ्चाहः । तत्रापि कृतचूडमरणे द्बादशाहः । द्विवर्षोपरि षड्वर्षाभ्यन्तरे मरणे द्बादशाहः । अत्रापि कृतोद्वाहेऽपि मासो व्यवह्रियते षड्वर्षोपरि- मासः ॥ * ॥
“बालकजननान्तरकर्त्तव्यमाह वैद्यके । यथा,—“अथबालं क्षौमपरिवृतं क्षौमवस्त्रास्तृतायां शय्यायां शाययेत् । पीलु- बदरीनिम्बपरूषकशाखाभिश्चैनं वीजयेत् । मूर्द्ध्नि चास्याहरहस्तैलपिचुमवचारयेत् । धूपयेच्चैनं रक्षोघ्नैधूपैः । रक्षोघ्नानि चास्य पाणिपादशिरोग्रीवास्ववसृजेत् तिलातसी- सर्षपकणांश्चात्र प्रकिरेत् । अघिष्ठाने चाग्निं प्रज्वालयेत् । व्रणितोपासनीयञ्चावेक्षेत ॥ ततो दशमेऽहनि मातापितरौ कृतमङ्गल- कौतुकौ स्वस्तिवाचनं कृत्वा नाम कुर्य्यातां यदभिप्रेतं नक्षत्रनाम वा ॥ ततो यथावर्णं धात्रीमुपेयान्मध्यमप्रमाणां मध्यमवयसमरोगां शीलवतीमचपलामलोलु- पामकृपामस्थूलां प्रसन्नक्षीरामलम्बौष्ठीमल- म्बोर्द्धस्तनीमव्यङ्गामव्यसनिनीं जीवद्बत्सां दोग्ध्रीं वत्मलामक्षुद्रकर्म्मिणीं कुले जातामतो भूयि- ष्ठैश्च गुणैरन्वितां श्यामामारोग्यब्रलवृद्धये बालस्य । तत्रोर्द्धस्तनी करालं कुर्य्यात् । लम्ब- स्तनीं नासिकामुखं छादयित्वा मरणमापा- दयेत् । ततः प्रशस्तायां तिथौ शिरःस्नात- महतवाससमुदङ्मुखं शिशुमुपवेश्य धात्रीं प्राङ्मुखीमुपवेश्य दक्षिणं स्तनं धौतमीषत्परि- स्रुतमभिमन्त्र्य मन्त्रेणानेन पाययेत् । चत्वारः सागरास्तुभ्यं स्तनयोः क्षीरवाहिणः । भवन्तु सुभगे नित्यं बालस्य बलवृद्धये ॥ पयोऽमृतरसं पीत्वा कुमारस्ते शुभानने । दीर्घमायुरवाप्नोतु देवाः प्राश्यामृतं यथा ॥ अतोऽन्यथा नानास्तन्योपयोगस्यासात्म्यात् व्याधिजन्म भवति । अपरिस्रुतेऽप्यतिस्तब्ध- स्तन्यपूर्णस्तनपानादुत्स्रुहितस्रोतसः शिशोः कासश्वासवमीप्रादुर्भावः । तस्मादेवं विधानं स्तन्यं न पाययेत् ॥” “बालं पुनर्गात्रंमुखं गृह्णीयान्न चैनं तर्ज्जयेत् सहसा न प्रतिबोधयेद्वित्रासभयात् सहसा नापहरेदुत्क्षिपेद्बा वातादिविघातभयान्नोपवे- शयेत् कौब्ज्यभयात् नित्यञ्चैनमनुवर्त्तेत प्रिय- शतैरजिघांसुः । एवमनभिहतमनास्त्वभिवर्द्धते नित्यमुदग्रसत्त्वसम्पन्नो नीरोगः सुप्रसन्नमनाश्च भवति । वातातपंविद्युत्प्रभापादपलताशून्या- गारनिम्नस्थानगृहच्छायादिभ्यो दुर्ग्रहोपसर्ग- तश्च बालं रक्षेत् । नाशुचौ विसृजेद्बालं नाकाशे विषमे न च । नोष्ममारुतवर्षेषु रजोधूमोदकेषु च ॥ क्षीरसात्म्यतया क्षीरमाजं गव्यमथापि वा । दद्यादास्तन्यपर्य्याप्तेर्बालानां वीक्ष्यमात्रया ॥” इति सुश्रुते शारीरस्थाने दशमेऽध्याये ॥)



Correction: