शब्दकल्पद्रुमः
बालक्रीडनं || क्ली (बालस्य क्रीडनम् । क्रीड् + भावे ल्युट् ।) बालखेला । यथा, — “बालक्रीडनमिन्दुशेखरधनुर्भङ्गावधि प्रह्वता ॥” इत्यादि महानाटकम् ॥