वाचस्पत्यम्
बालग्रह || पु० ६ त० । बालानां पीडके उपग्रहभेदे “बालग्रहा- भिभूतानां बालानां शान्तिकारकसिति” चण्डी । कुमार- भृत्याशब्दे २१०८ पृ० दृश्यम् ।
शब्दकल्पद्रुमः
बालग्रहः || पुं, (बालानां बालकानां ग्रहः ।)
बालकहन्तृग्रहविशेषः । (यथा, मार्कण्डेये । ९२ । २७ । “बालग्रहाभिभूतानां बालानां शान्ति- कारकम् ॥”)
एतेषां विवरणम् । यथा, —
“बाल ग्रहा अनाचारात् पीडयन्ति शिशुं यतः । तस्मात्तदुपसर्गेभ्यो रक्षेद्बालं प्रयत्नतः ॥” अथ बालग्रहाणां नामान्याह । “स्कन्दग्रहस्तु प्रथमं स्कन्दापस्मार एव च । शकुनी रेवती चैव पूतना गन्धपूतना ॥ पूतना शीतपूर्व्वा च तथैव मुखमण्डिका । नवमो नैगमेयश्च प्रोक्ता बालग्रहा अमी ॥” अथ ग्रहाणामुत्पत्तिमाह । “नवस्कन्दादयः प्रोक्ता बालानां ये ग्रहा अमी । श्रीमन्तो दिव्यवपुषो नारीपुरुषविग्रहाः ॥ एते स्कन्दस्य रक्षार्थं कृत्तिकोमाग्निशूलिभिः । सृष्टाः शरवणस्थस्य रक्षितस्य स्वतेजसा ॥ स्कन्दः सृष्टो भगवता देवेन त्रिपुरारिणा । बिभर्त्ति चापरां संज्ञां कुमार इति संग्रहः ॥” अयं हि कार्त्तिकेयादन्यः । “स्कन्दापस्मारसंज्ञो यः सोऽग्निना तत्समद्युतिः । स च स्कन्दसखो नाम्ना विशाख इति चोच्यते ॥ ग्रहाः स्त्रीविग्रहा ये ते नानारूपाः प्रकीर्त्तिताः । देवानां कृत्तिकानां ते भागा राजसतामसाः ॥ नैगमेयस्तु पार्व्वत्या सृष्टो ह्येषां ततो ग्रहः । कुमारस्य हि देवस्य गुहस्यात्मसमोऽस्ति वै ॥ ततो भगवति स्कन्दे सुरसेनापतौ कृते । उपतस्थुर्ग्रहा ह्येते दीप्तशक्तिधरं गुहम् ॥ ऊचुः प्राञ्जलयश्चैनं वृत्तिर्नो दीयतामिति । तेषामर्थे ततः स्कन्दः शिवं देवमचोदयत् ॥ ततो ग्रहांस्तानुवाच भगवान् भगनेत्रहृत् । तिर्य्यग्योनिं मानुषञ्च दैवञ्च त्रितयं जगत् ॥ परस्परोपकारेण वर्त्तते धार्य्यते तथा । देवा नरान् प्रीणयन्ति तिर्य्यग्योनींस्तथैव च ॥ यथाकालं प्रवृत्तास्तु उष्मवर्षाहिमानिलैः । इत्यञ्जलिनमस्कारैर्जपहोमैस्तथैव च ॥ सम्यक् प्रयुक्तैश्च नराः प्रीणयन्त्यपि देवताः । भागधेयं विभक्तञ्च शेषं किञ्चिन्न विद्यते ॥ तद्युष्माकं शुभा वृत्तिर्बालेष्वेव भविष्यति ॥” अथ बालग्रहाणां बालग्रहणकारणमाह । “कुलेषु येषु नेज्यन्ते देवाः पितर एव च । ब्राह्मणाः साधवो वापि गुरवोऽतिथयस्तथा ॥ निवृत्तशौचाचारेषु तथा कुत्सितवर्त्तिषु । निवृत्तभिक्षावलिषु भग्नकांस्यगृहेषु च ॥ गृहेषु तेषु बालांस्तान् ग्रहा हिंसन्त्यशङ्किताः । तत्र वो विपुला वृत्तिः पूजा चैव भविष्यति ॥ एवं ग्रहाः समुत्पन्ना बालान् हिंसन्ति चाप्यथ । ग्रहोपसृष्टा बालाः स्युर्दुश्चिकित्स्यतमास्ततः ॥” अथ सामान्यग्रहजुष्टानां बालानां लक्षणा- न्याह । “क्षणादुद्विजते बालः क्षणात्त्रस्यति रोदिति । नखेर्दन्तैर्दारयति धात्रीमात्मानमेघ च ॥ ऊर्द्ध्वं निरीक्षते दन्तान् खादेत् कूजति जृम्भते । भ्रुवौ क्षिपति दन्तौष्ठः फेनं वमति वासकृत् ॥ क्षामोऽति निशि जागर्त्ति शूलाङ्गो भिन्नविट्- स्वरः । मत्स्यशोणितगन्धश्च न चाश्नाति यथा पुरा ॥ दुर्ब्बलो मलिनाङ्गश्च नष्टसंज्ञोऽपि जायते । सामान्यग्रहजुष्टस्य लक्षणं समुदाहृतम् ॥” अथ विशिष्टग्रहजुष्ठानां लक्षणान्याह । “स्रस्ताङ्गः क्षतजसगन्धिकस्तनद्बिट्- वक्रास्यो हतचरणैकपक्षनेत्रः । उद्विग्नः ससलिलचक्षुरल्परोदी स्कन्दार्त्तो भवति च गाढमुष्टिबन्धः ॥ निःसंज्ञो भवति पुनर्लभेत संज्ञां संस्तब्धः करचरणैश्च नृत्यतीव । विणमूत्रे सृजति विनद्य जृम्भमाणः फेनं वा सृजति च तत्सखाभिजुष्टः ॥” तत्सखाभिजुष्टः स्कन्दापस्मारयुक्तः । “स्रस्ताङ्गो भयचकितो विहङ्गगन्धिः सास्रावव्रणपरिपीडितः समन्तात् । स्फोटैश्च प्रचिततनुः सदाहपाकै- र्विज्ञेयो भवति शिशुः क्षतः शकुन्या ॥ रक्तास्यो हरितमलोऽतिपाण्डुदेहः श्यावो वा मुखकरपाकवेदनार्त्तः । गृह्णातिव्यथिततनुश्च कर्णनासं रेवत्या भृशमभिपी इतः कुमारः ॥ स्रस्ताङ्गः स्वपिति न वासरे न रात्रौ विड्भिन्नं विसृजति काकतुल्याङ्गगन्धिः । च्छर्द्द्यार्त्तो हृषिततनूरुहः कुमार- स्तृष्णालुर्भवति च पूतनागृहीतः ॥ यो द्वेष्टि स्तनमत्ति न कासहिक्का- च्छर्द्दीभिर्ज्वरसहिताभिरर्द्द्यमानः । दुर्व्वर्णः सततमथापि योऽस्रगन्धि- स्तं ब्रूयाद्भिषगथ गन्धपूतनार्त्तम् ॥ आक्रन्दन् परिचकितः सुवेपमानः संलीनो भवति व्यथान्त्रकूजयुक्तः । स्रस्ताङ्गो भृशमतिसार्य्यते च यो वै तं ब्रूयाद्भिषगथ शीतपूतनार्त्तम् ॥ म्लानाङ्गः सरुधिरपाणिपादवक्त्रो वह्वाशी कलुषशिरावृतोदरो यः । स ज्ञेयः शिशुरथ रक्तमण्डिकार्त्तः सोद्वेगो भवति च मूत्रतुल्यगन्धिः ॥ यः फेनं वमति विनम्यते च मध्ये सोद्वेगो विहसति वोर्द्ध्वमीक्षमाणः । कूजेच्च प्रततमथो वसास्रगन्धि- र्निसंज्ञो भवति स नैगमेयजुष्टः ॥” अथ सामान्यग्रहजुष्टानां चिकित्सामाह । सहामुण्डतिकोदीच्यक्वाथस्नानं ग्रहापहम् । सहा माषपर्णी । “सप्तच्छदामयनिशाचन्दनैश्चानुलेपयेत् । सर्पत्वक् लशुनं मूर्व्वा सर्षपारिष्टपल्लवाः ॥ विडालविडजालोममेषशृङ्गी वचा मधु । धपः शिशोर्ज्वरघ्नोऽयमशोषग्रहनाशनः ॥ बालशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये । वचा कुष्ठं तथा ब्राह्मी सिद्धार्थकमथापि च ॥ सारिवा सैन्धवञ्चैव पिप्पली घृतमष्टमम् । सिद्धं घृतमिदं मेध्यं पिबेत् प्रातर्दिने दिने ॥ दृढस्मृतिः क्षिप्रमेधा कुमारो बुद्धिमान् भवेत् । न पिशाचा न रक्षांसि न भूता न च मातरः ॥ न भवन्ति कुमाराणां पिबतामष्टमङ्गलम् ॥” अष्टमङ्गलं घृतम् ॥ अथ विशिष्टग्रहजुष्टानां चिकित्सामाह । “सोमबल्लीमिन्द्रवृक्षं बन्दाकं विषजं शमीम् । मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ॥” तत्र स्कन्दग्रहजुष्टस्य चिकित्सामाह । “स्कन्दग्रहोपसृष्टस्य कुमारस्य प्रशस्यते । वातघ्नद्रुमपत्त्राणां क्वाथेन परिषेचनम् ॥ देवदारुणि रास्नायां मधुरेषु गणेषु च । सिद्धं सर्पिश्च सक्षीरं पातुमस्मे प्रदापयेत् ॥ सर्षपाः सर्पनिर्म्मोको वचा काकादनी घृतम् । उष्ट्राजाविगवाञ्चापि रोमाण्युद्धूपनं भवेत् ॥” काकादनी श्वेतगुञ्जा । सोमवल्लीमिन्द्रवृक्षं वृन्ताकं विषजं शमीम् । मृगादन्याश्च मूलानि ग्रथितानि विधारयेत् ॥” सोमबल्ली सोमलता । इन्द्रवृक्षं ककुभम् । मृगादनी इन्द्रवारुणी । रक्तानि माल्यानि तथा पताकां रक्तांश्च गन्धा विविधांश्च भक्ष्यान् । घृतञ्च देवाय बलिं निवेद्य सकुक्कुटं स्कन्दगृहे निधाय ॥ स्नानं त्रिरात्रं निशि चत्वरेषु कुर्य्यात् परं शालियवैर्निवेद्य । गायत्त्रियुक्ताभिरथाद्भिरग्निं प्रज्वालयेदाहुतिभिश्च धीमान् ॥ रक्षामतः प्रवक्ष्यामि बालानां पापनाशिनीम् । अहन्यहनि कर्त्तव्या याभिरद्भिरतन्द्रितैः ॥ तपसां तजसाञ्चैव यशसां वयसां तथा । निधानं योऽव्ययो देवः स ते स्कन्दः प्रसीदतु ॥ ग्रहसेनापतिर्देवो देवसेनापतिर्विभुः । देवसेनारिपुहरः पातु त्वां भगवान् गुहः ॥ देवदेवस्य महतः पावकस्य च यः सुतः । गङ्गोमाकृत्तिकानाञ्च स ते शर्म्म प्रयच्छतु ॥ रक्तमाल्याम्बरधरो रक्तचन्दनभूषितः । रक्तदिव्यवपुर्देवः पातु त्वां क्रौञ्चसूदनः ॥” अथ स्कन्दापस्मारग्रहजुष्टस्य चिकित्सामाह । “विल्वः शिरीषो गोलोमी सुरसादिश्च यो गणः । परिषेकः प्रयोक्तव्यः स्कन्दापस्मारशान्तये ॥” गोलोमी श्वेता दूर्व्वा । सुरसादिगणो यथा, —
“सुरसा श्वेतसुरसा पाठा फञ्जी फणिज्झकः । सौगन्धिकं भूस्तृणको राजिका श्वेतवर्व्वरी ॥ कट्फलं खरपुष्पा च कासमर्द्दश्च शल्लकी । विडङ्गमथ निर्गुण्डी कर्णिकार उदुम्बरः ॥ बला च काकमाची च तथा च विषमुष्टिका । कफक्रिमिहरः ख्यातः सुरसादिरयं गणः ॥” सुरसा कृष्णतुलसी । श्वेतसुरसा श्वेततुलसी । फञ्जी भार्गी । फणिज्झकः मरुबकः । सौग- न्धिकं कह्लारम् । भूस्तृणकः सुगन्धतृणम् । खरपुष्पा वर्वरी । कासमर्द्दः कसौदी । विष- मुष्टिका वकाइनि ॥ * ॥
“अष्टमूत्रविपक्कञ्च तैलमभ्यञ्जने हितम् ।” मूत्राष्टकमाह । “गोजाविमहिषाश्वानां खरोष्ट्रकरिणान्तथा । मूत्राष्टकमिति ख्यातं सर्व्वशास्त्रेषु सम्मतम् ॥ क्षीरीवृक्षकषायेण काकोल्यादिगणेन च । विपक्तव्यं घृतं पश्चाद्दातव्यं पयसा सह ॥ काकोल्यादिगणेन कल्कीकृतेन तैलं पक्तव्यम् । काकोल्यादिगणो यथा, —
“काकोली क्षीरकाकोली जीवकर्षभकस्तथा । ऋद्धिर्वृ द्धिस्तथा मेदा महामेदा गुडूचिका ॥ मुद्गपर्णी माषपर्णी पद्मकं वंशरोचना । शृङ्गी प्रपौण्डरीकञ्च जीवन्ती मधुयष्टिका । द्राक्षा चेति गणो नाम्ना काकोल्यादिरुदीरितः । स्तन्यकृद्बृंहणो वृष्यः पित्तरक्तानिलापहः । उत्सादनं वचा हिङ्गुयुक्तमत्र प्रकीर्त्तितम् ॥ गृध्रोलूकपुरीषाणि केशा हस्तिनखो घृतम् । वृषभस्य च रोमाणि योज्यान्युद्धूपने सदा ॥ अनन्तां कुक्कुटीं विम्बीं मर्कटीञ्चापि धारयेत् ॥” अनन्ता यवासा इति लोके । कुक्कुटी शाल्मली । “पक्वान्यामानि मांसानि प्रसन्नं रुधिरं पयः । मुद्गोदनं निवेद्याथ स्कन्दापस्मारिणे वटे ॥” वटे वटतले बलिं निवेद्येत्यन्वयः । तेन स्कन्दापस्मारिणा स्नानं कारयेदित्यन्वयः । “चतुष्पथे कारयेच्च स्नानं तेन ततः पठेत् । स्कन्दापस्मारसंज्ञो यः स्कन्दस्य दयितः सखा । विशाखः स शिशोरस्य शिवायास्तु शुभाननः ॥” अथ शकुनीग्रहजुष्टस्य चिकित्सामाह । “शकुनीग्रहजुष्टस्य कार्य्यं वैद्येन जानता । वेतसाम्रकपित्थानां क्वाथेन परिषेचनम् ॥ ह्रीवेरमधुकोशीरसारिवोत्पलपद्मकैः । लोध्रप्रियङ्गुमञ्जिष्ठागैरिकैः प्रदिहेच्छिशुम् ॥” प्रदिहेत् लिम्पेत् । रूपसिद्धिरार्ष्यत्वात् । “स्कन्दग्रहोक्ता धूपाश्च हिता अत्र भवन्ति हि । स्कन्दापस्मारशमनं घृतमत्रापि पूजितम् ॥ शतावरीं मृगेर्व्वारुनागदन्तीनिदिग्धिकाः । लक्षणां सहदेवाञ्च वृहतीञ्चापि धारयेत् ॥” मृगेर्व्वारुः वडी इन्द्रवारुणी । नागदन्ती नाग- हुली इति लोके प्रसिद्धा । “तिलतण्डुलकं माल्यं हरितालं मनःशिलाम् । बलिरेष निकुञ्जेषु निवेद्यो नियतात्मना ॥ निकटे च प्रयोक्तव्यं स्नानमस्य यथाविधि । श्वेतशिरीषगन्धाष्टकुष्ठगुग्गुलुसर्षपैः ॥ सिद्धमभ्यञ्जने तैलं धारणं पूर्ब्बमेव तु । शकुनीग्रहशान्त्यर्थं प्रदेहं कारयेद्धितम् ॥ कुर्य्याच्च विविधां पूजां शकुन्याः कुसुमैः शुभैः निकुम्भोक्तेन विधिना स्नपयेत्तं ततः पठेत् ॥ अन्तरीक्षचरा देवी सर्व्वालङ्कारभूषिता । अधोमुखी सूक्ष्मतुण्डा शकुनी ते प्रसीदतु ॥ दुर्दर्शना महाकाया पिङ्गाक्षी भैरवस्वरा । लम्बोदरी शङ्कुकर्णी शकुनी ते प्रसीदतु ॥” * ॥
अथ रेवतीग्रहजुष्टस्य चिकित्सामाह । “अश्वगन्धाजशृङ्गी च शारिवाथ पुनर्नवा । सहा विदारी ह्येतासां क्वाथेन परिषेचनम् ॥ अजशृङ्गी मेढाशृङ्गी । सहा सेवतीपुष्पजातिः । तैलमभ्यञ्जने कार्य्यं कुष्ठे सर्जरसे तथा । पलङ्कषायां नलदे तथा गौरकदम्बके ॥ सर्जरसः रालः पलङ्कषा गुग्गुलुः । नलदं लामज्जकमुशीरवत्पीतच्छविः । गौरकदम्बकः हारिद्रकः । हरदुया कदम्ब इति लोके । धवाश्वकर्णककुभशल्लकीतिन्दुकेषु च । काकोल्यादौ गणे चापि सिद्धं सर्पिः पिबेच्छिशुः ॥ अश्वकर्णः शांखु इति लोके प्रसिद्धः । कुलत्थाः शङ्खचूर्णञ्च प्रदेहः साखगन्धिकः । गृध्रोलूकपुरीषाणि यवान् यवफले घृतम् ॥ सन्ध्ययोरुभयोः कार्य्यमेतदुद्धूपनं शिशोः ॥ यवफलो वंशाङ्कुरः । शुक्लाः सुमनसो लाजाः पयः शाल्योदनं दधि । वलिर्निवेद्यो गोतीर्थे रेवत्यै प्रयतात्मना ॥ गोतीर्थे गोष्ठे । स्नानं धात्रीकुमाराभ्यां सङ्गमे कारयेद्भिषक् । नानावस्त्रधरा देवी चित्रमाल्यानुलेपना ॥ चलत्कुण्डलिनी श्यामा रेवती ते प्रसीदतु । उपासते यां सततं देव्यो विविधभूषणाः ॥ लम्बा करालाविनता तथैव बहुपुत्त्रिका । रेवती शुष्कनासा च तुभ्यं देवी प्रसीदतु ॥ * ॥
अथ पूतनाग्रहजुष्टस्य चिकित्सामाह । कपोतवङ्का श्योनाको वरुणः पारिभद्रकः आस्फोता चैव योज्याः स्युर्ब्बालानां परिषेचने ॥ कपोतवङ्का ब्राह्मी इति लोके । पारिभद्रो निम्बः । आस्फोता अपराजिता । नवा पयस्या गोलोमी हरितालं मनःशिला । कुष्ठं सर्जरसश्चैव तैलार्थे कल्क इष्यते ॥ नवा पयस्या नूतना क्षीरविदारी । गोलोमी श्वेतदूर्व्वा । हितं घृतं तगाक्षीर्य्या संसिद्धं मधुकेऽपि च । कुष्ठतालीसखदिराः स्यन्दनोऽर्जुन एव च ॥ पनसः ककुभश्चापि मज्जानो वदरस्य च । कुक्कुटास्थि घृतञ्चापि धूपनं सह सर्षपैः ॥ स्यन्दनः स्यन्दन इत्येव नाम्ना प्रसिद्धः । काकादनीं चित्रफलां विम्बीं गुञ्जाञ्च धारयेत् । काकादनी श्वेतगुञ्जा । चित्रफला बृहदिन्द्र- वारुणी । मत्स्यौदनं बलिं दद्यात् कृशरं पललं तथा । सरावसंपुटं कृत्वा तस्यै शून्ये गृहे भिषक् । उत्सृष्टान्नाभिषिक्तस्य शिशोः स्नपनमिष्यते ॥ कुष्ठतालीसखदिरं चन्दनं स्यन्दनं तथा । देववारु वचा हिङ्गु कुष्ठं गिरिकदम्बकः । एला हरेणवश्चापि योज्या उद्धूपने सदा ॥ मलिनाम्बरसंवीता मलिना रूक्षमूर्द्धजा । शून्यागाराश्रया देवी दारकं पातु पूतना ॥ * ॥
अथ गन्धपूतनाग्रहजुष्ठस्य चिकित्सामाह । तिक्तद्रुमाणां पत्रेषु क्वाथं कार्य्येऽभिषेचने । तिक्तद्रुमानाह । निम्बः पटोलः क्षुद्रा च गुडूची वासकस्तथा । विसर्पकुष्ठनुत् ख्यातो गणोऽयं पञ्चतिक्तकः ॥ पिप्पली पिप्पलीमूलं वर्गो मधुरको मधु । शालपर्णीबृहत्यौ च घृतार्थं सममाहरेत् ॥ सर्व्वगन्धैः प्रदेहश्च गात्रे चाक्ष्णोश्च शीतलैः ॥ सर्व्वगन्धैः कुङ्कुमागुरुकर्पूरकस्तूरीचन्दनैः । अक्ष्णोस्तु शीतलैः चन्दनकर्पूरैः न तु कस्तूरी- कुङ्कुमागुरुभिस्तेषामुष्णत्वात् । पुराषं कौक्कुटं केशञ्चर्म्म सर्पभवन्तथा । जीर्णञ्चाभीक्ष्णशो वासो धूपनायोपकल्पयेत् ॥ कुक्कुटीं मर्कटीं विम्बीमनन्ताञ्चापि धारयेत् । मांसमामं तथा पक्वं शोणितञ्च चतुष्पथे । निवेद्यमन्तश्च गृहे शिशोः स्नपनमिष्यते ॥ कराला पिङ्गला मुण्डा कषायाम्बरसंवृता । देवी बालमिमं प्रीता रक्ष त्वं गन्धपूतने ॥” * ॥
अथ शीतपूतनाग्रहजुष्टस्य चिकित्सामाह । गोमूत्रं वस्तमूत्रञ्च मुस्ताञ्चामरदारु च । कुष्ठञ्च सर्व्वगन्धांश्च तेलार्थमवधारयेत् ॥ सर्व्वगन्धान् चन्दनादीन् । रोहिणीनिम्बखदिरपलाशककुभत्वचः । निःक्वाथ्य तस्मिन्निःक्वाथे सक्षीरे विपचेद् घृतम् ॥ गृध्रोलूकपुरीषाणि वस्तिगन्धा महित्वचम् । निम्बपत्राणि च तथा धूपनार्थं समाहरेत् ॥ धारयेदपि गुञ्जाञ्च बलां काकादनीं तथा । नद्यां मुद्गौदनैश्चापि तर्पयेच्छीतपूतनाम् ॥ जलाशयान्ते बालस्य स्नपनञ्चोपदिश्यते । जलाशयान्ते जलाशयतीरे । देव्यै देयश्चौपहारो वारुणी रुधिरं तथा ॥ मुद्गौदनाशिनी देवी सुराशोणितपायिनी । जलाशयरता नित्यं पातु त्वां शीतपूतना ॥” * ॥
अथ मुखमण्डिकाग्रहजुष्टस्य चिकित्सामाह । कपित्थं विल्वतर्कारीवासागन्धर्व्वहस्तकाः । कुवेराक्षी च योज्याः स्युंर्बालानां परिषेचने ॥ तर्कारी गणियारि इति लोके । गन्धर्व्वहस्तकः श्वेत एरण्डः । कुवेराक्षी पाडरि इति लोके । स्वरसैर्भृङ्गवृक्षाणां तथैव हयगन्धया । तैलं वचाञ्च संयोज्य पचेदभ्यञ्जनं शिशोः ॥ भृङ्गवृक्षः भगरा इति लोके । वचा सर्जरसं कुष्ठं सर्पिश्चोद्धूपने हितम् ॥ वर्णकं चूर्णकं माल्यमञ्जनं पारदं तथा । मनःशिलाञ्चोपहरेत् गोष्ठमध्ये बलिन्ततः ॥ पायसं सपुरोडाशं तद्बल्यर्थमुपाहरेत् । मन्त्रपूताभिरद्भिश्च तत्रैव स्नपनं हितम् ॥ जलाभिमन्त्रणमन्त्रमाह । अलङ्कृता कामवती सुभगा कामरूपिणी । गोष्ठमध्यालयरता पातु त्वां मुखमण्डिका ॥ * ॥
अथ नैगमेयग्रहजुष्टस्य चिकित्सामाह । विल्वाग्निमन्थपूतीकैः कार्य्यं स्यात् परिषेचनम् । पूतीकः घोराकरञ्ज इति लोके प्रसिद्धः । प्रियङ्गुशरलानन्ताशतपुष्पाकुटन्नटैः । पचेत्तैलं सगोमूत्रं दधिमस्त्वम्लकाञ्जिकैः ॥ कुटन्नटं वितुन्नकनाम्नो वृक्षविशेषस्य त्वक् । गुडतजी इति लोके प्रसिद्धा । मुस्ताकृतिः श्योनाको वा । वचां वयस्थां जटिलां गोलोमीं चापि धारयेत् । वयस्था आमलकी गुडूची वा । उत्सादनं हितञ्चात्र स्कन्दापस्मारनाशनम् ॥ मर्कटोलूकगृध्राणां पुरीषाणि पितृगृहे । धूमः सुप्तजने कार्य्यो बालस्य हितमिच्छता ॥ पितृगृहे नैगमेयगृहे । तिलतण्डुलकं माल्यं भक्ष्यांश्च विविधानपि । कौमारपितृमेषाय प्लक्षमूले निवेदयेत् ॥ मेषाय नैगमेयग्रहाय । अधस्तात् क्षीरवृक्षस्य स्नपनञ्चोपदिश्यते ॥ अजाननश्चलाक्षिभ्रुः कामरूपी महायशाः । बालं पालयिता देवो नैगमेयोऽभिरक्षतु ॥” इति भावप्रकाशः ॥ (तथास्य लक्षणान्तरं चिकित्सितञ्च यथा, —
“बलिशान्तीष्टकर्म्माणि कार्य्याणि ग्रहशान्तये । मन्त्रश्चायं प्रयोक्तव्यस्तत्रादौ सर्व्वकामिकः ॥ ॐ नमो भगवते गरुडाय त्र्यम्बकाय सद्यस्तर स्तुत स्तुत स्वाहा । ॐ कं खं टं पं शं वैनतेयाय नमः । ॐ ह्रीं हुँ क्षं । बालदेहप्रमाणेन पुष्पमालान्तु सर्व्वतः । प्रगृह्य मुच्छिकाभक्तबलिर्देयस्तु शान्तिकः । ॐ कारी सुवर्णपक्षी बालकं रक्ष रक्ष स्वाहा ॥ ॐ नारायणाय नमः ॥” “प्रथमे दिवसे मासे वर्षे वा गृह्णाति नन्दा नाम मातृका तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । चक्षुरुन्मीलयति गात्रमुद्वेजयति न शेते क्रन्दति स्तन्यं न गृह्णाति । आँत्कारश्च भवति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्त- लिकां कृत्वा शुक्लौदनः शुक्लपुष्पं सप्तध्वजाः सप्तप्रदीपाः सप्तस्वस्तिकाः सप्तवटकाः । सप्त- सष्कुलिकाः जम्बुडिका गन्धताम्बूलं मत्स्यमांसं सुरामग्रभक्तञ्च पूर्ब्बस्यान्दिशि चतुष्पथे मध्याह्ने बलिर्दातव्यः अश्वत्थपत्रं जलकुम्भे निक्षिप्य शान्त्युदकेन स्नापयेत् । रसोनसिद्धार्थक मेषशृङ्गनिम्बपत्रशिवनिर्म्माल्यैर्बालकं धूपयेत् । ॐ नमो नारायणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा एवं दिनत्रयं बलिं दत्त्वा चतुर्थे दिवसे ब्राह्मणं भोजयेत् । ततः सम्पद्यते शुभम् ॥ द्वितीये दिवसे मासे वर्ष वा गृह्णाति सुनन्दा- नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । चक्षुरुन्मीलयति गात्रमुद्वेजयति न शेते क्रन्दति स्तन्यं न गृह्णाति आँत्कारश्च भवति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । तण्डुलं हस्तपृष्ठैकं गृहीत्वा दधिगुडघृतमिश्रितं शरावैकं गन्धताम्बूलं पीतपुष्पं पीतसप्त- ध्वजाः । चत्वारः प्रदीपाः दशस्वस्तिकाः मत्स्यमांससुरास्तिलचूर्णञ्च पश्चिमस्यान्दिशि चतुष्पथे बलिर्दातव्यः । दिनानि त्रीणि त्रिसन्ध्यं ततः शान्त्युदकेन स्नापयेत् । शिवनिर्म्माल्य- सिद्धार्थमार्ज्जाररोम उशीरबालकघृतैर्धूपं दद्यात् । ॐ नमो नारायणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च ह्रीं फट् स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् । तृतीये दिवसे मासे वर्षे वा गृह्णाति पूतनानाम- मातृका तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गात्रमुद्वेजयति स्तन्यं न गृह्णाति मुष्टिं बध्नाति क्रन्दति ऊर्द्ध्वं निरीक्षते । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा रक्तचन्दनं गन्धताम्बूलं रक्तसप्तध्वजाः । सप्त- प्रदीपाः सप्तस्वस्तिकाः । पक्षिमांससुराग्रभक्तं दक्षिणस्यान्दिशि अपराह्णे चतुष्पथे बलि- र्दातव्यः । शिवनिर्म्माल्यगुग्गुलुसर्षपनिम्बपत्रमेष शृङ्गैर्दिनत्रयं धूपयेत् । ॐ नमो नारायणाय अमुकस्य व्याधिं हन हन मुञ्च मुञ्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्प- द्यते शुभम् ॥ चतुर्थे दिवसे मासे वष वा गृह्णाति मुख- मुण्डिकानाम मातृका तया गृहीतमात्रेण प्रथमं भवति ज्वरः । ग्रीवां नामयति चक्षुरु- न्मीलयति स्तन्यं न गृह्णाति रोदिति स्वपिति मुष्टिं बध्नाति बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां कृत्वा उत्पलपुष्पं गन्धं ताम्बूलं दशध्वजाः दीपाश्चत्वारः । त्रयोदश स्वस्तिकाः मत्स्य- मांससुरामग्रभक्तञ्च उत्तरस्यां दिशि अपराह्णे बलिर्देयः चतुष्पथे । ॐ नमो नारायणाय अमु- कस्य व्याधिं हन हन मथ मथ स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् । पञ्चमे दिवसे मासे वर्षे वा गृह्णाति कटपूतना नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गात्रमुद्बेजयति स्तन्यं न गृह्णाति मुष्टिं बध्नाति । बलिन्तस्य प्रवक्ष्यामि येन सम्प- द्यते शुभम् । कुम्भकारचक्रस्य मृत्तिकां गृहीत्वा पुत्तलिकां विधाय गन्धताम्बूलं शुक्ल- पुष्पं शुक्लौदनं पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च- वटकाः ऐशान्यां दिशि बलिर्दातव्यः । शान्त्यु- दकेन स्नापयेत् । शिवनिर्म्माल्यसर्पनिर्म्मोक गुग्गुलु निम्बपत्रबालकघृतैर्धूपं दद्यात् । ॐ नमो नारायणाय अमुकस्य व्याधिं चूर्णय चूर्णय हन हन स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् ॥ षष्ठे दिवसे मासे वर्षे वा गृह्णाति शकुनिकानाम मातृका तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गात्रभेदं दर्शयति दिवारात्रावुत्थानं भवति । ऊर्द्धं निरीक्षते । बलिं तस्य प्रव- क्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृत्वा शुक्लपीतरक्तपुष्पगन्धताम्बूलानि दश दीपाः । दश पीतध्वजाः दश स्वस्तिकाः दश वटकाः । क्षीरजम्बुडिकाः । मत्स्यमांससुरा आग्नेय्यान्दिशि निष्क्रान्ते मध्याह्ने बलिर्दातव्यः । शान्त्युदकेन स्नापयेत् । शिवनिर्म्माल्यरसोन- गुग्गुलुसर्पनिर्म्मोकनिम्बपत्रघृतैर्धूपं दद्यात् । ॐ नमो नारायणाय अमुकस्य व्याधिं चूर्णय चूर्णय हन हन स्वाहा । चतुर्थे दिवसे ब्राह्म- णान् भोजयेत् ततः सम्पद्यते शुभम् ॥ सप्तमे दिवसे मासे वर्षे वा गृह्णाति शुष्करेवती नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गात्रमुद्वेजयति मुष्टिं बध्नाति रोदिति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । रक्तशुक्लपुष्पं गन्धताम्बूलरक्तौदनं कृशरास्त्रयोदश स्वस्तिकाः त्रयोदश सष्कुलिका जम्बुडिका मत्स्यमांससुराः त्रयोदश ध्वजाः पञ्च प्रदीपाः । पश्चिमस्यान्दिशि ग्रामनिष्क्रा- न्तेऽपराह्णे वृक्षमाश्रित्य बलिर्दातव्यः । शान्त्यु- दकेन स्नापयेत् । गुग्गुलुमेषशृङ्गसर्षपोशीर बालकघृतैर्धूपन्दद्यात् । ॐ नमो नारायणाय दीप्ततेजसे हन हन मुञ्च मुञ्च स्वाहा ॥ चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् । अष्टमे दिवसे मासे वर्षे वा गृह्णाति अर्य्यका नाम मातृका तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गृध्रगन्धः पूतिगन्धश्च जायते । आहारं न गृह्णाति गात्रमुद्बेजयति । बलिन्तस्य प्रव- क्ष्याभि ततः सम्पद्यते शुभम् । रक्तपीतध्वजाः चन्दनं पीतपुष्पं सष्कुल्यः पर्पटिका मत्स्य- मांससुराः जम्बुडिकाः प्रत्यूषे बलिन्दद्यात् ॥ ॐ नमो नारायणाय त्रैलोक्यविद्रवणाय चतु- द्दिशामीक्षणाय व्याधिं हन हन मुञ्च मुञ्च ज्वल ज्वल दह दह ॐ ह्रीं फट् स्वाहा ॥ चतुर्थे दिवसे ब्राह्मणान् भोजयेत् ततः सम्पद्यते शुभम् । नवमे दिवसे मासे वर्षे वा गृह्णाति सूतिका नाम मातृका । तया गृहीतमात्रस्य प्रथमं भवति ज्वरः । नित्यं छर्द्दयति गात्रभेदं दर्शयति मुष्टिं बध्नाति । निद्रातितरा स्याद्वलिन्तस्य प्रव- क्ष्यामि येनसम्पद्यते शुभम् । नद्युभयतटमृत्तिकां गृहीत्वा पुत्तलिकां निर्म्माय शुक्लवस्त्रेण वेष्ट- येत् । शुक्लपुष्पं शुक्लोदनं गन्धताम्बूलं शुक्लाः त्रयोदश ध्वजाः त्रयोदश प्रदीपाः त्रयोदश स्वस्तिकाः त्रयोदश मत्स्यमांससुराः । उत्तर- दिग्विभागे ग्रामनिष्काशे बलिं दापयेत् । शान्त्यु- दकेन स्नापयेत् । गुग्गुलुनिम्बपत्रगोधूमगोशृङ्ग- श्वेतसर्षपघृतैर्धूपं दद्यात् । ॐ नमो नारायणाय चतुर्भुजाय हन हन मुञ्च मुञ्च स्वाहा । चतुर्थ- दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यते शुभम् । दशमे दिवसे मासे वर्षे वा यदि गृह्णाति निरृता नाम मातृका । तया गृहीतमात्रेण प्रथमं भवति ज्वरः । गात्रमुद्वेजयति आँत्कारं करोति पुरीषमूत्रञ्च बहु भवेत् । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पारावारस्य मृत्तिकया पुत्तलिकां कृत्वा रक्तचन्दनगन्ध- ताम्बूलादिभिर्भूषयित्वा पञ्च वर्णाः पञ्च ध्वजाः पञ्च प्रदीपाः पञ्च स्वस्तिकाः पञ्च पुत्तलिका मत्स्यमांससुराः वायव्यान्दिशि बलिन्दद्यात् । काकविष्ठागोमांसगोशृङ्गरसोनमार्ज्जाररोम- निम्बपत्रघृतैर्धूपयेत् । ॐ नमो नारायणाय चूर्णितहस्ताय हन हन मुञ्च मुञ्च स्वाहा । चतुर्थे दिवसे ब्राह्मणान् भोजयेत्ततः सम्पद्यते शुभम् ॥ एकादशे दिवसे मासे वर्षे वा यदा गृह्णाति पिलिपिच्छिका नाम मातृका । तया गृहीत- मात्रस्य प्रथमं भवति ज्वरः । आहारं न गृह्णाति । ऊर्द्ध्वदृष्टिर्भवति गात्रभङ्गश्च भवति आँत्कारश्च भवति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । पिष्टकेन पुत्तलिकां कृत्वा रक्तचन्दनरक्तं तस्या मुखं दुग्धेन सिञ्चेत् पीतपुष्पं गन्धताम्बूलं सप्त प्रदीपा अष्टौ वटका अष्टौ सष्कुलिका अष्टौ पुरिका मत्स्यमांस- सुराः पूर्ब्बस्यान्दिशि बलिर्दातव्यः । शान्त्यु- दकेन स्नापयेत् । शिवनिर्म्माल्य गुग्गुलु गोशृङ्गसर्पनिर्म्मोकघृतैर्धूपयेत् । ॐ नमो नारा- यणाय मुञ्च मुञ्च स्वाहा । चतुर्थदिवसे विप्रान् भोजयेत्तेन सम्पद्यते शुभम् ॥ द्बाशशे दिवसे मासे वर्षे वा यदा गृह्णाति कामुका नाम मातृका । तया गृहीतमात्र स्यादौ जायते ज्वरः । हसित्वा वदति अङ्गुल्या- तर्ज्जयति क्रामति निःश्वसिति । मुहुर्मुहु- श्छर्द्दयति । आहारं न करोति । बलिन्तस्य प्रवक्ष्यामि येन सम्पद्यते शुभम् । क्षीरेण पुत्त- लिकां कृत्वा शुक्लकुसुमं गन्धताम्बूलं शुक्लाः सप्त ध्वजाः । सप्त सष्कुलिकाः ॥ सप्त प्रदीपाः । करस्थेन दधिभक्तेन सर्व्वकर्म्मबलिं दद्यात् शान्त्युदकेन स्नापयेत् । श्वेतसर्षपगुग्गुलुशिव- निर्म्माल्यघृतैर्धूपयेत् । ॐ नमो नारायणाय व्याधिं मुञ्च मुञ्च हन हन स्वाहा । चतुर्थ- दिवसे विप्रान् भोजयेत् । ततः सम्पद्यते शुभम् ॥ इति रावणकृतं बालतन्त्रं समाप्तम् ॥ इति वैद्यकचक्रपाणिसंग्रहे बालरोगाघिकारे ॥)