वाचस्पत्यम्
बालतृण || न० कर्म० । नवतृणे शष्पे अमरः ।
शब्दकल्पद्रुमः
बालतृणं || क्ली (बालं नवजातं तृणम् ।)
नवतृणम् । तत्पर्य्यायः । शष्पम् २ । इत्यमरः । २ । ४ । २६७ ॥ (यथा, रघौ २ । २६ श्लोकटीकायां मल्लिनाथः । गङ्गायाः प्रपातस्तस्यान्ते समीपे विरूढानि जातानि शष्पाणि बालतृणानि यस्मिन् तत् ॥”)