शब्दकल्पद्रुमः
बालपुष्पिका || स्त्री (बालानि क्षुद्राणि पुष्पाणि यस्याः । ततः स्वार्थे कन् कापि अत इत्वम् ।) यूथिका । इति राजनिर्घण्टः ॥ (विवृतिरस्या यूथिकाशब्दे निर्द्देश्या ॥)