संस्कृत-शब्दकोशः

बालराज बालव

बालरोग

वाचस्पत्यम्

बालरोग ||‍ पु० भाबप्र० उक्ते बालस्य रोगभेदे तन्निदानादि तत्रोक्तं यथा “अथ बालरोगाणां निदानानि लक्षणानि चाह । “धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषलैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्थ प्रदुष्यति । मिथ्याहारविहारिण्या दुष्टा वातादयस्त्रयः । दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः । ह्रीवेरं शर्करा क्षौद्रं लीढं तृष्णा हरं परम् ।” इति तृष्णायाम् । “वातदुष्टं शिशुः स्तन्यं पिबन् वातबदातुरः । क्षामस्तरः कृशाङ्गः स्वा- द्वद्धविण्मूत्रमासतः । खिन्नो भिन्नमलो बालः कामला- पित्तरोगवान् । तृष्णालुरूष्मसर्वाङ्गः पित्तदुष्टं पयः पि- वन् । श्लेष्मदुष्टं पिबन् क्षीरं लालायुक् श्लेष्मरोगवान् । निद्रार्द्दितो जडः शूनो वक्राक्षश्छर्दनः शिशुः । ज्व- राद्या व्याधयः सर्वे वक्ष्यन्ते महतान्तु ये । बालाना- मपि ते तद्वद्बोद्धव्या भिषगुत्तमैः । बालानामेव ये रोमा भवन्ति महतां न च । तालुकण्टकमुख्यांस्तानवधारय यत्नतः ।” तत्रादौ तालुकण्टकमाह । तालुम से कफः व्रुद्धः कुरुते तालुकण्टकम् । तेन तानुप्रदेशस्य निम्नता मूर्घ्नि जायते । तालुपातात् स्तनवेषः कृच्छ्रात् पानं शकृद्दूवम् । तृडक्षिकण्ठास्यरुज ग्रीवादुर्द्वरता- वमिः ।” पानं स्तनस्य, शकृद्दूवं द्रवरूपम् । महापद्म- माह । “वीसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः । पद्मवर्णो महापद्मरोगो२ दोषत्रयोङ्गतः। शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं ब्रजेत् ।” पद्मवर्णः लोहित वर्ण तत्र शीर्षजो वीसर्पः । शङ्खार्भ्या हृदयं याति हृद० याच्च गुदं व्रजेत् एवं वस्तिजो गुदं याति गुदतः हृदयं हृदयाच्छिरो याति इति बोद्धव्यम् । कुकूणकमाह “कुकूणकं३ क्षीणदोषाच्छिशूनामेव वर्त्मनि । जायते सरुज नेत्रं कण्डूरं प्रस्रवेद्बहु । शिशुः कुर्य्याल्ललाटा- क्षीकूटनासाप्रघर्षणम् । शक्तो नार्कप्रभां द्रष्टुं न चाक्ष्युन्मीलनक्षमः ।” कुकूणकं (कोथु) इति लोके । अथ तुण्डीगुदप्राकमाह । “वातेनाध्मापिना नाभिः सरुजा तुण्डिरुच्यते । बालस्य गुदपाकाख्यो ४ व्याधिः पित्तेन जायते ।” अहिपूतनमाह । शकृन्मूत्रसमायुक्ते धौते पाने शिशोर्भयेत् । खिन्ने वा स्नाप्यमानस्य कण्डू रक्तकफाद्भवा । कण्डूयनात्ततः क्षिप्रं स्फोटः स्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम्५ ।” स्विन्ने स्वेदितिए । अजगल्लीमाह । स्निग्धा सवर्णा ग्रथिता नीरुजा मुद्गसन्निभा । कफवातोत्थिता ज्ञेया बालानामजगल्लिका६ । ग्रथिता गुम्फितेव मुद्गसन्निभा मुद्गाकृतिः । परिगर्भिकमाह मातुः । कुमारो गर्भिण्या स्तन्यं प्रायः पिबन्नपि । कासाग्निसादवमथुतन्द्राकार्श्या- ऽरुचिभ्रमैः । युज्यते कोष्टवृद्ध्या च तमाहुः परिगर्भि- कम् ७ । रोगं परिभवाख्यञ्च ८ तत्र युञ्जीत दीपनम् । पिबन्नपीत्यपिशब्दादपिबन्नपि परिगर्भिकः (अहीडीति) लोके । परिभवाख्यं परिभवेति नामान्तरम् । अथ दन्तो- द्भेदकान् रोगानाह “दन्तोद्भेदः शिशीः सर्वं रोगाणां कारणं स्मृतम् । विशेषात् ज्वरविड्भेदकासच्छर्दिशिरो- रुजाम् । अभिष्यन्दस्य षोथक्याधीसर्पस्य च जायते । कारणभित्यन्वयः पोथक्या वर्त्मरोगविशेषस्य ।”


शब्दकल्पद्रुमः

बालरोगः || पुं, (बालस्य रोगः ।)
बालकस्य व्याधिः । तस्य निदानं लक्षणानि चाह । “धात्र्यास्तु गुरुभिर्भोज्यैर्विषमैर्दोषजैस्तथा । दोषा देहे प्रकुप्यन्ति ततः स्तन्यं प्रदूष्यति ॥ मिथ्याहारविहारिण्या दुष्टा वातादयः स्त्रियाः । दूषयन्ति पयस्तेन जायन्ते व्याधयः शिशोः ॥ * ॥
वातदुष्टं शिशुः स्तन्यं पिबन् वातगदातुरः । क्षामस्वरः कृशाङ्गः स्याद्बद्धविण्मूत्रमारुतः ॥ स्विन्नो भिन्नमलो बालः कामलापित्तरोगवान् । तृष्णालुरुष्णसर्व्वाङ्गः पित्तदुष्ठं पयः पिबन् ॥ श्लेष्मदुष्टं पिबन् क्षीरं लालालुः श्लेष्मरोगवान् । निद्रार्द्दितो जडः शूनवक्त्राक्षश्छर्द्दनः शिशुः ॥ ज्वराद्या व्याधयः सर्व्वे वक्ष्यन्ते महतान्तु ये । बालानामपि ते तद्बद्बोद्धव्या भिषगुत्तमैः ॥ बालानामेव ये रोगा भवन्ति महतां न च । तालुकण्टकमुख्यांस्तानवधारय यत्नतः ॥” तत्रादौ तालुकण्टकमाह । “तालुमांसे कफः क्रुद्धः कुरुते तालुकण्टकम् । तेन तालुप्रदेशस्य निम्नता मूर्द्ध्नि जायते ॥ तालुपातात् स्तनद्वेषः कृच्छ्रात् पानं शकृद्- द्रवम् । तृडक्षिकण्ठास्यरुजा ग्रीवादुर्द्धरता वमिः ॥” पानं स्तन्यस्य । शकृद्द्रवं द्रवरूपम् ॥ अथ महापद्ममाह । “विसर्पस्तु शिशोः प्राणनाशनः शीर्षवस्तिजः । पद्मवर्णो महापद्मरोगो दोषत्रयोद्भवः । शङ्खाभ्यां हृदयं याति हृदयाच्च गुदं ब्रजेत् ॥” पद्मवर्णः लोहितवर्णः तत्र शीर्षजो विसर्पः शङ्खाभ्यां हृदयं याति हृदयात् गुदं व्रजेत् । एवं वस्तितो गुदं याति । गुदतो हृदयं हृदया- च्छिरो याति इति बोद्धव्यम् ॥ अथ कुकूणकमाह । ‘कुकूणकः क्षीरदोषात् शिशूनामेव वर्त्मनि । जायते तेन तन्नेत्रं कण्डुरं प्रस्रवेन्मुहुः ॥ शिशुः कुर्य्याल्ललाटाक्षिकूटनासाप्रघर्षणम् । शक्तो नार्कप्रभां द्रष्टं न वर्त्मोन्मीलनक्षमः ॥’ कुकूणकः कोथुया इति लोके ख्यातः ॥ * ॥
अथ तुण्डिगुदपाकमाह । ‘वातेनाघ्मापिता नाभिः सरुजा तुण्डिरुच्यते । बालस्य गुदपाकाख्यो व्याधिः पित्तेन जायते ॥’ अथाहिपूतनं आह । ‘शकृन्मूत्रसमायुक्तेऽधौतेऽपाने शिशोर्भवेत् । स्विन्ने वा स्नाप्यमानस्य कण्डू रक्तकफोद्भवा ॥ कण्डूयनात्ततः क्षिप्रं स्फोटाः स्रावश्च जायते । एकीभूतं व्रणं घोरं तं विद्यादहिपूतनम् ॥ स्विन्ने स्वेदिते ॥ * ॥
अथाजगल्लीमाह । स्निग्धा सवर्णा ग्रथिता निरुजा मुद्गसन्निभा । कफवातोत्थिता ज्ञेया बालानामजगल्लिका ॥’ ग्रथिता गुम्फितेव । मुद्गसन्निभा । मुद्गाकृतिः ॥ अथ पारगर्भिकमाह । ‘मातुः कुमारो गर्भिण्याः स्तन्यं प्रायः पिबन्नपि । कासाग्निसादवमथुतन्द्राकार्श्यारुचिभ्रमैः ॥ युज्यते कोष्ठवृद्ध्या च तमाहुः पारिगर्भिकम् । रोगं परिभवाख्यञ्च तत्र युञ्जीत दीपनम् ॥’ पिबन्नपीत्यपिशब्दादपिबन्नपि पारिगर्भिकः । अहीडी इति लोके । परिभवाख्यं परिभवेति नामान्तरम् ॥ * ॥
अथ दन्तोद्भेदकान् रोगानाह । ‘दन्तभेदः शिशोः सर्व्वरोगाणां कारणं स्मृतम् । विशेषाज्ज्वरविड्भेदकासच्छर्द्दिशिरोरुजम् ॥ अभिष्यन्दस्य पोथक्या विसर्पस्य च जायते ॥’ कारणमित्यन्वयः । पोथक्याः वर्त्मरोगविशेषस्य ॥ अथ बालरोगाणां चिकित्सा । ‘भैषज्यं पूर्ब्बमुद्दिष्टं महतां यज्ज्वरादिषु । तदेव कार्य्यं बालानां किन्तु दाहादिकं विना ॥’ दाहादिकं विना अग्निदाहादिक्षारवमनविरे- चनशिराव्यधादिकं षिना । महाकष्टे चोत्पन्ने वमनबिरेकाद्यं दद्यात् । यत आह सुश्रुतः । विरेकवस्तिवमनानृते कुर्य्याच्च नात्ययादिति । अत्ययात् विनाशकरकष्टात् ऋते विना ॥ ‘त एव दोषा दूष्याश्च ज्वराद्या व्याधयश्च ते । अतस्तदेव भैषज्यं मात्रा त्वस्य कनीयसी ॥’ अस्य बालस्य । कनीयसीमात्रामाह विश्वा- मित्रः । ‘विडङ्गफलमात्रन्तु जातमात्रस्य भेषजम् । अनेनैव प्रमाणेन मासि मासि प्रवर्द्ध्वयेत् ॥’ विडङ्गपरिमितं भेषजं चूर्णीकृत्य किंवा कल्की- कृत्याथवावलेहीकृत्य दद्यादित्यर्थः । तन्त्रान्तरे त्वन्यथाभिहितम् । ‘प्रथमे मासि बालाय देया भेषजरक्तिका । अवलेह्या तु कर्त्तव्या मधुक्षीरसिताघृतैः ॥ एकैकां वर्द्धयेत्तावद्यावत् संवत्सरो भवेत् । तदूर्द्ध्वं माषवृद्धिः स्याद्यावत् षोडशवत्सराः ॥’ एकैकां रक्तिकाम् तदूर्द्ध्वं वर्षोपरि माषवृद्धिः प्रतिवर्षं पञ्चगुञ्जात्मकस्य माषस्य वृद्धिर्भवति । गुञ्जाः पञ्चाद्यमाषक इत्यमरसिंहः ॥ ‘ततः स्थिरा भवेत्तावद्यावद्वर्षाणि सप्ततिः । ततो बालकवन्मात्रा ह्रासनीया शनैः शनैः ॥’ ततः षोडशवत्सरोपरि । ‘चूर्णकल्कावलेहानामियं मात्रा प्रकीर्त्तिता । कषायस्य पुनः सैव विज्ञातव्या चतुर्गुणा ॥ क्षीरपस्य शिशोर्देयमौषधं क्षीरसर्पिषा । धात्र्यास्तु केवलं देयं न क्षीरेणापि सर्पिषा ॥’ क्षीरान्नादस्य पूर्ब्बवत् क्षीरसर्पिषा । प्रकारा- न्तरेणौषधपानमाह सुशुतः । ‘येषां गदानां ये योगाः प्रवक्ष्यन्ते गदङ्कराः । तेषु तत्कल्कसंलिप्तौ पाययेत शिशुं स्तनौ ॥’ अवचनानां बालानामभ्यन्तरव्याधिज्ञानोपाय- माह । ‘अङ्गप्रत्यङ्गदेशे तु रुजा यत्रास्य जायते । मुहुमुहुः स्पृशति तं स्पृश्यमानेन रोदिति ॥ निमीलिताक्षो मूर्द्धस्थे रोगे नो धारयेच्छिरः । वस्तिस्थे मूत्रसङ्गार्त्तो क्षुधातृडपि गच्छति ॥ विण्मूत्रसङ्गवैकल्याच्छर्द्द्याघ्मानान्त्रकूजनैः । कोष्ठे व्याधीन् विजानीयात् सर्व्वत्रस्थांश्च रोदनैः ॥’ अत्रादौ ज्वरस्य चिकत्सामाह । ‘सर्व्वं निर्वार्य्यते बाले स्तन्यं नैव निषार्य्यते । मात्रया लङ्घ्ययेद्धात्रीं शिशोरेतद्विलङ्घनम् ॥’ मात्रया लङ्घयेत् लघु भोजयेत् । ‘भद्रमुस्ताभयानिम्बपटोलमधुकैः कृतः । क्वाथः कोष्णः शिशोरेष निःशेषज्वरनाशनः ॥’ भद्रमुस्तादिक्वाथः सर्व्वज्वरेषु ॥ * ॥
‘घनकृष्णारुणाशृङ्गीचूर्णं क्षौद्रेण संयुतम् । शिशोर्ज्वरातिसारघ्नं कासं श्वासं वमिं हरेत् ॥ अरुणा अतिविषा । चतुर्भद्रिका ज्वराति- सारेषु ॥ ‘विल्वञ्च पुष्पाणि च धातकीनां जलं सलोध्रं गजपिप्पली च । क्वाथावलेहौ मधुना विमिश्रौ बालेषु योज्यावतिसारितेषु ॥’ जलं बाला । विल्वादिक्वाथावलेहौ । अतीसारेषु ॥ ‘समङ्गाधातकीलोध्रसारिवाभिः सृतं जलम् । दुर्द्धरेऽपि शिशोर्देयमतीसारे समाक्षिकम् ॥’ समङ्गा लज्जालुमूलम् । समङ्गादिक्वाथो दुर्द्ध- रेऽतीसारे ॥ * ॥
‘विडङ्गान्यजमीदा च पिप्पलीतण्डुलानि च । एवामालीढ्य चूर्णानि सुखं तप्तेन वारिणा । आमे प्रवृत्तेऽतीसारे कुमारं पाययेद्भिषक् ॥’ विडङ्गादिचूर्णमतीसारे ॥ * ॥
‘मोचरसः समङ्गा च धातकी पद्मकेशरम् । पिष्टैरेतैर्यवागूः स्याद्रक्तातीसारनाशिनी ॥’ मोचरसलज्जालुमूलधावैफुलकमलकेशरसमुदि- ततोला १ तण्डुलकीखुदीतोला १ जलतोला ११ सर्व्वमेकीकृत्य यवागूः साधनीया । मोच- रसादियवागू रक्तातिसारे ॥ * ॥
‘नागरातिविषामुस्ताबालकेन्द्रयवैः शृतम् । कुमारं पाययेत् प्रातः सर्व्वातीसारनाशनम् ॥’ नागरादिक्वाथः सर्व्वातीसारे ॥ * ॥
‘लाजासयष्टिमधुका शर्करा क्षौद्रमेव च । तण्डुलोदकयोगेन क्षिप्रं हन्ति प्रवाहिकाम् ॥’ लाजादिचूर्णं प्रवाहिकायाम् ॥ * ॥
‘रजनी सरलो दारुवृहती गजपिप्पली । शृङ्गिपर्णी शताहा च लीढं माक्षिकसर्पिषा ॥ दीपनं ग्रहणीं हन्ति मारुतार्त्तिसकामलाम् । ज्वरातीसारपाण्डूघ्नं बालानां सर्व्वरोगनुत् ॥’ रजन्यादिचूर्णं ग्रहण्यादौ ॥ * ॥
‘पौष्करातिविषाशृङ्गीमागधीधन्वयासकैः । कृतं चूर्णन्तु सक्षौद्रं शिशूनां पञ्चकासजित् ॥’ पौष्करादिचूर्णं कासेषु ॥ * ॥
‘पौष्करातिविषावासाकणाशृङ्गीरसं लिहन् । मधुना मुच्यते बालः कासैः पञ्चभिरुच्छ्रितैः ॥’ मुस्तकादिरसः कासेषु ॥ * ॥
‘व्याघ्रीकुसुमसंजातकेशरैरवलेहिका । मधुना चिरसंजातान् शिशोः कासान् व्यपो- हति ॥’ कासे ॥ * ॥
‘घान्यं शर्करया युक्तं तण्डुलोदकसंयुतम् । पानमेतत् प्रदातव्यं कासश्वासापहं शिशोः ॥’ धान्यादिपानं कासश्वासयोः ॥ * ॥
‘द्राक्षावासाभयाकृष्णाचूर्णं क्षौद्रेण सर्पिषा । लीढं श्वासं निहन्त्याशु कासञ्च तमकं तथा ॥’ तमकं श्वासभेदम् । द्राक्षादिचूर्णं कासश्वासयोः ॥ ‘चूर्णं कटुकरोहिण्या मधुना सह योजयेत् । हिक्कां प्रशमयेत् क्षिप्रं छर्द्दिञ्चापि चिरो- त्थिताम् ॥’ हिक्कायां छर्द्याञ्च ॥ * ॥
‘आम्रास्थिलाजसिन्धूत्थं सक्षौद्रं छर्द्दिनुद्भवेत् ॥’ छर्द्याम् ॥ * ॥
‘पीतं पीतं वमेद्यस्तु स्तन्यं तं मधुसर्पिषा । द्विवार्त्ताकी फलरसं पञ्चकोलञ्च लेहयेत् ॥’ द्विवार्त्ताकी बृहतीद्बयम् ॥ * ॥
‘पञ्चकोलानि पिप्पलीपिप्पली- मूलचव्यचित्रकनागराणि ॥’ क्षीरच्छर्द्याम् ॥ * ॥
‘ह्रीवेरशर्कराक्षौद्रं लीढं तृष्णाहरं परम् । घृतेन सिन्धुविश्वैलाहिङ्गुभार्गीरजोलिहन् ॥ आनाहं वातिकं शूलं हन्यात्तोयेन वा शिशुः ॥’ आनाहे वातशूले च ॥ * ॥
‘कणोषणासिताक्षौद्रसूक्ष्मैलासैन्धवैः कृतः । मूत्रग्रहे प्रयोक्तव्यः शिशूनां लेह उत्तमः ॥’ मूत्राघाते ॥ * ॥
‘यदा तु दुर्ब्बलो बालः खादन्नपि च वह्निमान् । विदारीकन्दगोधूमयवचूर्णं घृतप्लुतम् ॥ खादयेत्तदनुक्षीरं शृतं समधुशर्करम् ॥’ कार्श्ये ॥ * ॥
‘मुस्तकुष्माण्डबीजानि भद्रदारुकलिङ्गकान् । पिष्ट्वा तोयेन संलिम्पेल्लेपोऽयं शोथहृच्छिशोः ॥’ शोथे ॥ * ॥
‘पटोलत्रिफलारिष्टहरिद्राक्वथितं पिबेत् । क्षतवीसर्पविस्फोटज्वराणां शान्तये शिशुः ॥’ क्षतवीसर्पविस्फोटज्वरेषु ॥ * ॥
‘गृहधूमनिशाकुष्ठराजिकेन्द्रयवैः शिशोः । लेपस्तक्रेण हन्त्याशु सिध्मपामविचर्च्चिकाम् ॥ सारिवातिललोध्राणां कषायो मधुकस्य च । संस्राविणि मुखे शस्तो धावनार्थं शिशोः सदा ॥’ मुखस्रावे ॥ * ॥
‘अश्वत्थत्वग्दलक्षौद्रैर्मुखपाके प्रलेपनम् ॥’ मुखपाके ॥ * ॥
‘पिप्पलीत्रिफलाचूर्णं घृतक्षौद्रपरिप्लुतम् । बालो रोदिति यस्तस्मै लेढुं दद्यात् सुखा- वहम् ॥’ रोदने ॥ * ॥
‘हरीतकी वचा कुष्ठं कल्कं माक्षिकसंयुतम् । पीत्वा कुमारः स्तन्येन मुच्यते तालुकण्टकात् ॥’ तालुकण्टके ॥ * ॥
‘फलत्रिकं लोध्रपुनर्नवे च सशृङ्गवेरं बृहतीद्वयञ्च । आलेपनं श्लेष्महरं सुखोष्णं कुकूणके कार्य्यमुदाहरन्ति ॥’ कुकूणके ॥ * ॥
‘मृत्पिण्डेनाग्नितप्तेन क्षीरसिक्तेन सोष्मणा । स्वेदयेदुत्थितां नाभिं शोथस्तेनोपशाम्यति ॥’ नाभिशोथे ॥ * ॥
‘नाभिपाके निशालोध्रप्रियङ्गुमधुकैः शृतम् । तैलमभ्यञ्जने शस्तमेभिर्वाप्यवधूलनम् ॥ दग्धेन च्छागशकृता नाभिपाकेऽवचूर्णनम् । त्वक्चूर्णैः क्षीरिणां वापि कुर्य्याच्चन्दन- रेणुना ॥’ नाभिपाके ॥ * ॥
‘गुदपाके तु बालानां पित्तघ्नीं कारयेत् क्रियाम् । रसाञ्जनं विशेषेण पानलेपनयोर्हितम् ॥ शङ्खयष्ट्यञ्जनैश्चूर्णं शिशूनां गुदपाकनुत् ॥’ अञ्जनं रसाञ्जनम् । गुदपाके ॥ * ॥
‘शङ्खसौवीरयष्ट्याह्वैर्लेपो देयोऽहिपूतने ॥’ अहिपूतने ॥ * ॥
‘पारिगर्भिकरोगे तु पूज्यते वह्निदीपनम् ॥’ पारिगर्भिके ॥ * ॥
‘दन्तपालिन्तु मधुना चूर्णेन प्रतिसारयेत् । धातकीपुष्पपिप्पल्योर्धात्रीफलरसेन वा ॥ दन्तोत्थानभवा रोगाः पीडयन्ति न बालकम् । जाते दन्ते हि शाम्यन्ति यतस्तद्धेतुका गदाः ॥’ दन्तोद्भेदजरोगेषु ॥ * ॥
‘सौवर्णं सुकृतं चूर्णं कुष्ठं मधु घृतं वचा । मत्स्याक्षकः शङ्खपुष्पी मधु सर्पिः सकाञ्चनम् ॥ अर्कपुष्पीमधु घृतं चूर्णितं कतकं वचा । सहेमचूर्णं कैटर्य्यं श्वेता दूर्व्वा घृतं मधु ॥ चत्वारोऽभिहिताः प्राशा अर्द्धश्लोकसमापनाः । कुमाराणां वपुर्मेधाबलपुष्टिकराः स्मृताः ॥’ सावर्णचूर्णम् । चतुर्ष्वपि योगेषु मारित- सुवर्णचूर्णम् । मत्स्याक्षकः ब्राह्मी इति लोके वकम इत्येके । अर्कपुष्पी अर्कसदृशपुष्पलता । कैटर्य्यं कट्फलम् । श्वेता दूर्व्वाविशेषणं वचेति केचित् । संवत्सरं यावदेते योगाः प्रयोज्याः द्वादशवर्षाणीति केचित् ॥ * ॥
‘बालानाञ्च वपुर्मेधाबलपुष्टिकराः स्मृताः । लाक्षारसे समे तैलं मस्तुन्यथ चतुर्गुणे ॥ रास्नाचन्दनकुष्ठाह्वावाजिगन्धानिशायुतैः । शताह्वादारुयष्ट्याह्वमुर्व्वातिक्ताहरेणुभिः ॥ संसिद्धं ज्वररक्षोघ्नं बलवर्णकरं शिशोः ॥” लाक्षादितैलं बालेषु ॥ * ॥
इति भावप्रकाशे बालरोगाधिकारः ॥



Correction: