वाचस्पत्यम्
बालसूर्य्य || न० बालः सूर्य्यस्तद्वर्णोऽस्त्यस्य । १ वैदूर्य्यमणौ त्रिका० कर्म० । २ अचिरोदिते सूर्य्ये पु० ।
शब्दकल्पद्रुमः
बालसूर्य्यं || क्ली (बालः सूर्य्य इव) वैदूर्य्यमणिः । इति त्रिकाण्डशेषः ॥ प्रातःकालीनसूर्य्ये, पुं ॥