वाचस्पत्यम्
बालाक्षी || स्त्री बालः केशा इवाक्षितुल्यं पुष्पमस्याः षचसमा० स्त्रियां ङीष् । केशपुष्पोवृक्षे शब्दच० ।
शब्दकल्पद्रुमः
बालाक्षी || स्त्री (बालाः केशा इवाक्षिसदृशं च पुष्पं यस्याः ।)
केशपुष्पावृक्षः । तत्पर्य्यायः । मानसी २ दुर्गपुष्पी ३ केशधारिणी ४ । इति शब्दचन्द्रिका ॥