संस्कृत-शब्दकोशः

बालि बालिखिल्य

बालिका

शब्दकल्पद्रुमः

बालिका || स्त्री (बाला एव । बाल + स्वार्थे कन् । टाप् अत इत्वम् ।)
बाला । कन्या । बालुका । पत्रकाहला । कर्णभूषणम् । इति मेदिनी । के, १३० ॥ एला । इति शब्दरत्नावली ॥ कन्या- स्वरूपलक्षणे यथा, —
“कन्या देव्या स्वयं प्रोक्ता कन्यारूपा तु शूलिनी । यावदक्षतयोनिः स्यात्तावद्देवी सुरारिहा ॥” इति देवीपुराणम् ॥



Correction: