संस्कृत-शब्दकोशः

बालुकामयं बालुकास्वेद

बालुकायन्त्र

वाचस्पत्यम्

बालुकायन्त्र ||‍ न० ६ त० । १ औषधपाकार्थे यन्त्रभेदे । “भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपिके । कुपिका कण्ठपर्य्यन्तं बालुकाभिश्च पूरिते । भेषजं कूपिकासंस्थ वह्निना यत्र पच्यते । बालुकायन्त्रमेतिद्धि यन्त्रतन्त्रबुधैः स्मृतम्” भावप्र० । २ कालज्ञापने रङ्गना० प्रदर्शिते यन्त्र- भेदे “ससूत्ररेणुगर्भैश्च सम्यक् कालं प्रसाधयेत्” सू० सि० व्याख्यायां “सूत्राकारेण रेणवः सिकतांशागर्भे उदरे यस्यैतादृशं यन्त्रं बालुकायन्त्रं प्रसिद्धम्” रङ्गनाथः ।


शब्दकल्पद्रुमः

बा(वा)लुकायन्त्रं || क्ली (बालुकाया यन्त्रम् ।)
औषधपाकार्थयन्त्रविशेषः । यथा, —
“भाण्डे वितस्तिगम्भीरे मध्ये निहितकूपके । कूपिकाकण्ठपर्य्यन्तं बालुकाभिश्च पूरिते ॥ भेषजं कूपिकासंस्थं बह्रिना यत्र पच्यते । बालुकायन्त्रमेतद्धि यन्त्रतन्त्रबुधैः स्मृतम् ॥” इति भावप्रकाशः ॥



Correction: