संस्कृत-शब्दकोशः

बाहाबाहवि बाहुक

बाहु

वाचस्पत्यम्

बाहु ||‍ पु० बाध—कु धस्य हः । भुजे कक्षावध्यङ्गुलिपर्य्यन्तेऽवयवे अमरः ।


शब्दकल्पद्रुमः

बाहुः is an alternate of वाहुः. वा(बा)हुः || पुं, (बाधते शत्रूनिति । बाधृ लोडने + “अर्त्तिदृशिकमीति ।” उणा० । १ । २८ । इति कुः हकारादेशश्च ।)
कक्षावध्यङ्गुल्यग्र- पर्य्यन्तावयवः । यथा । भुजवाहुः प्रवेष्टो द्योरि- त्यमरः ॥ वहत्यनेन वाहुः नाम्नीति उण् । घञि वाहोऽदन्तः । वाहोऽश्वभुजयोः पुमान् । इति दामोदरः । स्त्रियां वाहा च । वाहो वाहा भुजा वाहुर्दोषो दोषा च दोः पुमान् । इति कोषान्तरम् ॥ इति तट्टीकायां भरतः ॥ कूर्प- रस्योर्द्ध्वभागो वाहुस्तस्याधोभागः प्रवाहुः । यथा, —
“मुखं वाहू प्रवाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” इति विष्णुपुराणे ५ अंशे ५ अध्यायः ॥ वाहुप्रवाहू च कूर्परस्योर्द्ध्वाधोभागौ । इति तट्टीका ॥ अन्यत् पवर्गीयवकारादिबाहुशब्दे द्रष्टव्यम् ॥ * ॥
अस्य शुभाशुभलक्षणं यथा, —
“निर्मांसौ चैब भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ वाहू वृत्तौ पीनौ नृपेश्वरे ॥ निःस्वानां रोमशौ ह्नस्वौ श्रेष्ठौ करिकरप्रभौ । हस्ताङ्गुलय एव स्युरायुर्दा ललिताः शुभाः ॥ मेधाविनाञ्च सूक्ष्माः स्युर्भृत्यानां चिपिटाः स्मृताः । स्थूलाङ्गुलीभिर्निःस्वाः स्युर्नताःस्युर्वहिरन्तदाः ॥ कपितुल्यकरा निःस्वा व्याघ्रतुल्यकरैर्धनम् । मणिबन्धैर्निगूढैश्च सुश्लिष्टशुभसन्धिभिः ॥ नृपा हीनैः करच्छेदः सशब्दैर्धनवर्ज्जिताः । पितृवित्तविहीनाश्च निम्नात् करतलान्नराः ॥ संवृत्तैश्चैव निम्नैश्च धनिनः परिकीर्त्तिताः । प्रोक्ता नरकदातारो विषमैर्विषमा नराः ॥ करैः करतलैश्चैव लाक्षाभैरीश्वरास्तलैः । परदाररताः पीतै रूक्षैर्निःस्वा नरा मताः ॥ तुषतुल्यनखाः क्लीवाः कुटिलैः स्फुटितैर्नराः । निःस्वाश्चक्रनखैस्तद्वद्बिवर्णैः परतर्ककाः ॥ ताम्रैर्भूपा धनाढ्याश्च अङ्गुष्ठैः सयवैस्तथा । अङ्गुष्ठमूलजैः प्रेष्यः स्याद्दीर्घाङ्गुलिपर्व्वकः ॥ दीर्घायुः सुभगश्चैव निर्धनो विरलाङ्गुलिः । घनाङ्गुलिश्च सधनस्तिस्रो रेखाश्च यस्य वै ॥ नृपतेः करतलगा मणिबन्धे समुत्थिताः । युगमीनाङ्कितकरो भवेत् सत्रप्रदो नरः ॥ वज्राकाराश्च धनिनां मत्स्यपुच्छनिभा बुधे । शङ्खातपत्रशिविकागजपद्मोपमा नृपे ॥ कुम्भाङ्कुशपताकाभा मृणालाभा निरीश्वरे । दामाभाश्च गवाढ्यानां स्वस्तिकाभा नृपेश्वरे ॥ चक्रासितोमरधनुःकुन्ताभा नृपतेः करे । उदूखलाभा यज्ञाढ्ये वेदीभाश्चाग्निहोत्रिणि ॥ वापीदेशकुलाभाश्च त्रिकोणाभाश्च धार्म्मिके । अङ्गुष्ठमूलगा रेखाः पुत्त्राः सूक्ष्माश्च दारिकाः ॥ प्रदेशिनीगता रेखा कनिष्ठामूलगामिनी । शतायुषञ्च कुरुते छिन्नया तरुतो भयम् । निस्वाश्च बहुरेखाः स्युर्निर्द्रव्याश्चिवुकैः कृशैः ॥” इति गारुडे ६६ अध्यायः ॥


शब्दकल्पद्रुमः

बाहुः || पुं, स्त्री, (बाधते शत्रून् इति । बाध + “अर्जिदृशिकम्यमिपंसिबाधामृजिपशि तुक् धुक् दीर्घहकाराश्च ।” उणा० १ । २८ । इति कुप्रत्य- योऽन्तस्य हकारादेशश्च ।)
कक्षाद्यङ्गुल्यग्र- पर्य्यन्तावयवविशेषः । तत्पर्य्यायः । भुजः २ प्रवेष्टः ३ दोः ४ । इत्यमरः । २ । ६ । ८० । दोषः ५ बाहः ६ । इति जटाधरशब्दरत्ना- वल्यौ ॥ तद्वैदिकपर्य्यायाः । आयती १ च्यवना २ अनीशू ३ अप्लवाना ४ विनंगृसौ ५ गभस्ती ६ कवस्नौ ७ बाहू ८ भूरिजौ ९ क्षिपस्ती १० शक्करी ११ भरित्रे १२ । इति द्वादश बाहु- नामानि । इति वेदनिर्घण्टौ २ अध्यायः ॥ * ॥
(यथा ऋग्वेदे । ५ । ५७ । ६ । “ऋष्टयो वो मरुतो अंसयोरधि सह ओजो बाह्वोर्वो बलं हितम् ॥” नृपत्वसूचकबाहुलक्षणम् । यथा, —
“निर्मांस्रौ चैव भग्नाल्पौ श्लिष्टौ च विपुलौ भुजौ । आजानुलम्बिनौ बाहू वृत्तौ पीनौ नृपेश्वरे ॥” इति गारुडे ६६ अध्यायः ॥ (अस्य शुभाशुभलक्षणमुक्तं यथा सामुद्रके । “उद्वद्धबाहुः पुरुषो वधबन्धनमाप्नुयात् । दीर्घबाहुर्भवेद्राजा समुद्रवचनं यथा ॥ प्रलम्बबाहुरैश्वर्य्यं प्राप्नुयाद्गुणसंयुतम् । ह्रस्वबाहुर्भवेद्दासः परप्रेष्यकरस्तथा ॥ वामावर्त्तभुजा ये तु ये च दीर्घभुजा नराः । संपूर्णबाहवो ये तु राजानस्ते प्रकीर्त्तिताः ॥ पुरुषस्य दक्षिणबाहुस्पन्दने स्त्रियो वामबाहु- स्पन्दने शुभं तद्वीपरीते तु अशुभम् । यथा शाकुन्तले १ अङ्के । “शान्तमिदमाश्रमपदं स्फुरति च बाहुः कुतः फलमिहास्य । अथवा भवितव्यानां द्वाराणि भवन्ति सर्व्वत्र ॥” बाहुर्दक्षिणबाहुः । फलं वरस्त्रीलाभरूपम् ॥ “वामेतरभुजस्पन्दो वरस्त्रीलाभसूचकः ॥” इतिवचनात् ॥)
कूर्परस्य ऊर्द्धभागः । यथा, —
“मुखं बाहू प्रबाहू च मनः सर्व्वेन्द्रियाणि च । रक्षत्वव्याहतैश्वर्य्यस्तव नारायणोऽव्ययः ॥” अस्य टीका । बाहू प्रबाहू च कूर्परस्य ऊर्द्ध्वा- धोभागौ । इति विष्णुपुराणे । ५ । ५ ॥



Correction: