संस्कृत-शब्दकोशः

बिन्दुवासर बिन्दुसरस्

बिन्दुसरस

वाचस्पत्यम्

बिन्दुसरस ||‍ न० बिन्दुजातं सरः शा० त० । सरोवरभेदे यत्र गङ्गावतारणार्थं भगीरथेन तपस्तेपे तत्कथा “अथो त्तरेण कैलासात् मैनाकं पर्वतं प्रति । हिरण्यशृङ्गः सुमहान् महामणिमयो गिरिः । रम्यं बिन्दुसरो नाम यत्र राजा भगीरथः । द्रष्टुं भागीरथीं गङ्गा- मुवास बहुलाः समाः” भा० स० ३ अ० । मात्स्ये १०१ अ० तदुत्पत्तिकथा उक्ता यथा “तत्र त्रिपथगा देवी प्रथमन्तु प्रतिष्ठिता । सोमपादात् प्रसूता सा सप्तधा प्रविभज्यते । यूपा मणिमयास्तत्र चितयश्च हिरण्मयाः । तत्रेष्ट्वा क्रतुभिः सिद्धः शक्रः सुरगणैः सह । दिव्यश्छायापथस्तत्र नक्षत्राणान्तु म- ण्डलम् । दृश्यते भास्वरा रात्रौ देवी त्रिथगा तु सा । अन्तरीक्षं दिवञ्चैव भावयित्वा भुवङ्गता । भवोत्तमाङ्गे पतिता संरुद्धा योगमायया । तस्या ये बिन्दवः केचित् क्षुब्ध्यायाः पतिताभुवि । कृतन्तु तैर्विन्द्रुबरस्ततो विन्द- सरः स्मृतम्” । बिन्दुह्रदोऽप्यत्र पु० ।



Correction: