वाचस्पत्यम्
बीभत्स || त्रि० बन—निन्दायां स्वार्थे सन् कर्मणि घञ् । १ पापि- नि २ जुगुप्सिते, ३ वृणाविषये च ४ तद्धेतौ त्रि० मेदि० । ५ नाट्यादौ प्रसिद्धे जुगुप्सास्थायिभावके रसभेदे, पु० अमरः तद्रसविषये ६ बिकृतमांसादौ त्रि० । “शृङ्गारहास्यकरुण- रौद्रवीरभयानकाः । बीभत्सोऽद्भुत इत्यष्टौ रसाः शान्त- स्तथा मतः” रसानुद्दिश्य सा० द० लक्षितो यथा “जुपुप्सा- स्थायिभावस्तु बोभत्सः—कथ्यते रसः । नीववर्णो महा- कान्तटैवतोऽयमुदाहृतः । दर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् । निष्ठाव- नास्यवन्त्रनेन्त्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथा स्युर्व्यमिचारिणः । मोहापस्मरादिरोग । व्याधिश्च मर- णादयः” तन्निरुक्तिः । ७ अर्जुने पु० मेदि० ।
शब्दकल्पद्रुमः
बीभत्सः || त्रि (बीभत्सा घृणास्त्यत्र । अर्श- आद्यच् ।)
क्रूरः ॥ (यथा महाभारते । १ । १ । २१० । “यदाश्रौषं द्रोणपुत्त्रादिभिस्तै- र्हतान् पाञ्चालान् द्रौपदेयांश्च सुप्तान् । कृतं बीभत्समयशस्यञ्च कर्म्म तदा नाशंसे विजयाय सञ्जय ! ॥”)
घृणात्मा ॥ (यथा, मार्कण्डेये । १६ । १८ । “तथापि प्रणता भार्य्या तममन्यत दैवतम् । तं तथाप्यतिबीभत्सं सर्व्वश्रेष्ठममन्यत ॥”)
विकृतिः । इति मेदिनी । से, २९ ॥ (यथा, —
“दुष्टेर्दोषैः पृथक्सर्व्वैर्बीभत्सालोकनादिभिः ।” इति माधवकरकृतरुग्विनिश्चये छर्द्द्यधिकारे ॥ बीभत्सालोकनं विकृतिदर्शनमिति तट्टीकायां विजयरक्षितेनोक्तम् ॥)
पापी । इत्यजयः ॥ शृङ्गाराद्यष्टरसान्तर्गतषष्ठरसः । तत्पर्य्यायः । विकृतम् २ । इत्यमरः ॥ तस्य लक्षणादि यथा, साहित्यदर्पणे । ३ । २६३ । “जुगुप्सा स्थायिभावस्तु बीभत्सः कथ्यते रसः । नीलवर्णो महाकालदैवतोऽयमुदाहृतः ॥ दुर्गन्धमांसपिशितमेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्यमुद्दीपनमुदाहृतम् ॥ निष्ठीवनास्यबलननेत्रसङ्कोचनादयः । अनुभावास्तत्र मतास्तथास्युर्व्यभिचारिणः ॥ मोहोऽपस्मार आवेगो व्याधिश्च मरणादयः ॥” अस्य रसस्योदाहरणं यथा तत्रेव । “उत्कृत्योत्कृत्य कृत्तिं प्रथममथ पृथूच्छोथ- भ्रूयांसि मांसा न्यंसस्फिक् पृष्ठपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्ध्वा । अन्तःपर्यस्तनेत्रः प्रकटीतदशनः प्रेतरङ्कः कराङ्का दङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्र- मत्ति ॥”)
वैकृतञ्च । यथा । अतिशीलितपारुष्यमभि- शिक्षितवैकृतमित्यभिनन्दः । द्वयमिदं रसे क्लीवम् । तदालम्बने तु मांसशोणितादौ त्रिषु । इति तट्टीकायां भरतः ॥
शब्दकल्पद्रुमः
बीभत्सः || पुं, (बीभत्स्यतेऽनेन । वध + सन् + करणे घञ् ।)
अर्ज्जुनः । इति मेदिनी । से, २९ ॥