संस्कृत-शब्दकोशः

बुक बुक्कन

बुक्क

वाचस्पत्यम्

बुक्क ||‍ कुक्कु रादिशब्दे कथने च वा चु० उभ० पक्षे म्बा० पर० सक० सेट् । बुक्कयति ते बुक्कति अबुबुक्कत् त इरित् अवुक्वत् अबुक्कीत् । “कथने चुरा० कश्वादिशब्दे तु भ्वा०” रमानाथः ।


वाचस्पत्यम्

बुक्क ||‍ न० बुक्व अच । १ हृदयस्थे मांसपिण्डे २ अग्रमांसे ३ हृदये च अमरः अस्य स्त्रीत्वमपि स्त्रीत्वे टाप् गौ० ङीष् वा । “बुक्वाथातैर्युबतिनिकटे प्रौढवाक्येन राधा” उद्भटः । ४ छागे पु० (बोका) त्रिका० । ५ समने च पु० । ६ शोणिते भरतः स्त्री टाप् । ५ पी० बूक्कबुक्के अपि हृदये ।


शब्दकल्पद्रुमः

बुक्क || कि श्वादिशब्दे । इति कविकल्पदुमः ॥ (चुरा०-पक्षे भ्वा०-पर०-सक०-पक्षे अक०- सेट् ।)
पञ्चमस्वरी कोपधः । चुरादिपक्षे कथने भ्वादिपक्षे कुक्कुरादिशब्देऽयमिति रमानाथः । कि, बुक्कयति वाचा बहुलोकः । बुक्कति श्वा । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

बुक्कं || त्रि (बुक्कयति बुक्बुक् इत्यव्यक्तशब्दं करो- तीति । बुक्क + पचाद्यच् ।)
वक्षोऽभ्यन्तरमांस- विशेषः । तत्पर्य्यायः । अग्रमांसम् २ हृदयम् ३ हृत् ४ । इत्यमरः । २ । ६ । ६४ ॥ केचित्तु बुक्कात् पृथगेव हृदयान्तर्गतमांसविशेषे पद्मा- कारे हृदयादिद्वयमाहुः । धातोरनेकार्थत्वात् बुक्क्यते स्वादुत्वात् मृग्यते बुक्कं बुक्क किं श्वादि- शब्दे घञ् । नान्तः पुंलिङ्गोऽप्ययम् । स्त्रीलि- ङ्गाऽपीत्येके । इति स्वामी ॥ बुक्का स्त्री बुक्कः पुमानपि । शोणितेषु स्त्रियां बुक्का बुक्कस्तु समये द्वयोरिति रभसात् । नदादित्वात् स्त्रियां बुक्वीत्यन्ये । बुक्कनान्तं क्लीवमव्युत्पन्नमितिरुद्र- कलिङ्गादयः ॥ उरस्यपि च बुक्कायां हृदयं मानसेऽपि चेति त्रिकाण्डशेषः ॥ बुक्कशब्दस्य उकारस्य ऋकारादेशे तथैव बृक्कादिरूपञ्च । अग्रञ्च तन्मांसञ्चेति अग्रमांसं बुक्कस्याग्रं संमुखीभूतं मांसं बुक्काग्रमांसमित्येकं नामे- त्यन्ये । इति तट्टीकायां भरतः ॥


शब्दकल्पद्रुमः

बुक्कः || पुं, (बुक्कयति शब्दायते इति । बुक्क + अच् ।)
छागः । इति त्रिकाण्डशेषः ॥ समये पुं, स्त्री । इति रभसः ॥



Correction: