संस्कृत-शब्दकोशः

बुद्धिसहाय बुद्धुद

बुद्धीन्द्रिय

वाचस्पत्यम्

बुद्धीन्द्रिय ||‍ न० ६० त० । “मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके । बुद्धीन्द्रियमिति प्रोक्तम्” इत्युक्तेषु इन्द्रियेषु उभयोः ज्ञानकर्मेन्द्रिययोरुपकारकत्वात् मनसो ज्ञानमात्र- सहकारित्वविवक्षया बाह्यान्तरज्ञानकरणतया च तथात्वम् “चक्षुः श्रोत्रे स्पर्शनञ्च रसनाघ्राणमेव च । बुद्धीन्द्रियाणि जानीयात्” इत्यत्र बाह्यापेक्षया पञ्चकत्वमुक्तम् ।


शब्दकल्पद्रुमः

बुद्धीन्द्रियं || क्ली (बुद्धेर्बुद्ध्यात्मकं वा इन्द्रियम् ।)
ज्ञानेन्द्रियम् । यथा, —
“मनः कर्णौ तथा नेत्रे रसना त्वक् च नासिके । बुद्धीन्द्रियमिति प्राहुः शब्दकोशविचक्षणाः ॥” इति शब्दरत्नावली ॥ (यथा मनुः । २ । ९०-९२ । “श्रोत्रं त्वक् चक्षुषी जिह्वा नासिका चैव पञ्चमी । पायूपस्थं हस्तपादं वाक् चैव दशमी स्मृता ॥ बुद्धीन्द्रियाणि पञ्चैषां श्रोत्रादीन्यनुपूर्ब्बशः । कर्म्मेन्द्रियाणि पञ्चैषां पाय्वादीनि प्रचक्षते ॥ एकादशं मनो ज्ञेयं स्वगुणेनोभयात्मकम् । यस्मिन् जिते जितावेतौ भवतः पञ्चकौ गणौ ॥”



Correction: