संस्कृत-शब्दकोशः

बुद्बुद बुधचक्र

बुध

वाचस्पत्यम्

बुध ||‍ ज्ञाने दि० आ० सक० अनिट् । बुध्यते अबोधि अबोधिष्ट । बुबुधे । उद् + बुध—जागरणे पिषयस्फुरणाभिमुखीभाव रूपे सस्कारनिष्ठे व्यापारभेदे उद्नुद्धसंस्करादेव स्मृति- र्भवतीति शाखे स्थितम् ।


वाचस्पत्यम्

बुध ||‍ ज्ञाने भ्वा० उभ० सक० सेट् । बोधति ते । इरित अबुधत्० अपोधीत् अबोधि अबोधिष्ट । ज्वला० वा ण पक्षे क । बोधः बुधः ।


वाचस्पत्यम्

बुध ||‍ ज्ञापने भ्वा० प० सक० अनिट् । बोधति अभौत्सीत् शिष्यं गुरुः । बोद्धा बुद्धः ।


वाचस्पत्यम्

बुध ||‍ पु० बुध—क । १ पण्डिते, बृहस्पतिभार्य्यायां तारायां चन्द्रेण जनिते २ पुत्रे तस्य रोहिण्या प्रतिपालनात् रौहिणेयत्वम् । ३ ग्रहभेदे । तस्योत्पत्तिकथा शिववरेण तस्य ग्रहरूपत्वप्राप्तिकथा च काशीख० १५ अ० । “बृहस्पतेः सवै भार्य्यामैश्वर्य्यमदमोहितः । पुरोहितस्यापि गुरोर्भ्रातु- राङ्गिरसस्य वै । जहार तरसा ताराम्” इत्युपक्रमे । “ददावाङ्गिरसे तारां स्वयमेव पितामहः । अथान्त- र्गर्भमालोक्य तारां प्राह बृहस्पतिः । मदीयायां न ते योनौ गर्भो धार्य्यः कथञ्चन । ईषिकास्तम्भमासाद्य सा गर्भं चोत्ससर्ज ह । जातमात्रः स भगवान् देवानामाक्षि- पद्वपुः । ततः संशयमापन्नास्तारामूचुः सुरोत्तमाः । सत्यं व्रहि सुतः कस्य सोमस्याथ बृहस्पतेः । पृच्छ्य- माना यदा देवैर्नाह ताराऽतिसत्रपा । तदा तां शप्तु- मारब्धः कुमारः सोऽतितेजसा । तन्निवार्य्य तदा ब्रह्मा तारां पप्रच्छ संशयम् । प्रोवाच प्राञ्जलिः सा त सोमस्येति पितामहम् । तदा स मूर्द्ध्यूपाध्राय तारागर्भं प्रजा- पतिः । बुध इत्यकरोन्नाम तस्य बालस्य धीमतः । ततः स सर्वदेवेभ्यस्तेजोरूपबलाधिकः । बुधः सोमं समा- पृच्छ्य तपसे कृतनिश्चयः । जगाम काशीं निर्वाणराशिं विश्वेशपालिताम् । तत्र लिङ्ग प्रतिष्ठाप्य स्वनाम्ना तु बुधचूरम् । तपश्चचार चात्य ग्रमुग्र संशीलयन् हृदि” । इति तत्तप उक्तं तत्तपसा च तुष्टेन शिवेनोक्तं यथा “रौहिणेय! महाभाग! सौम्य! सौम्यवचोनिधे! । नक्षत्रलोकादुपरि तव लोको भविष्यति । मध्ये सर्वं ग्रहाणाञ्च सपर्य्यां लप्स्यसे पराम्” । बुधग्रहस्य कक्षाभगणादिकं खगोलशब्दे दृश्यम् ।


शब्दकल्पद्रुमः

बुध || इर् ज ञ वेदने । इति कविकल्पद्रुमः ॥ (भ्वा०-उभ०-सक०-सेट् । ज्वलादिरयम् ।)
इर् अबुधत् अबोधीत् । ज बोधः बुधः । ञ बोधति बोधते । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

बुध || औ विज्ञापने । इति कविकल्पद्रुमः । (भ्वा०- पर०-सक०-अनिट् ।)
औ बोद्ध्वा । बोधति गुरुः । इति दुर्गादासः ॥


शब्दकल्पद्रुमः

बुधः || पुं, (बुध्यते यः । “बुध् + इगुपधज्ञाप्रीकिरः कः ।” ३ । १ । १३५ । इति कः ।)
पण्डितः । तत्पर्य्यायः । विद्वान् २ विपश्चित् ३ दोषज्ञः ४ सन् ५ सुधीः ६ कोविदः ७ धीरः ८ मनीषी ९ ज्ञः १० प्राज्ञः ११ संख्यावान् १२ पण्डितः १३ कविः १४ धीमान् १५ सूरिः १६ कृती १७ कृष्टिः १८ लब्धवर्णः १९ विचक्षणः २० दूर- दर्शी २१ दीर्घदर्शी २२ । इत्यमरः । २ । ७ । ५ ॥ विदग्धः २३ दूरदृक् २४ सूरी २५ वेदी २६ वृद्धः २७ बुद्धः २८ विधानगः २९ प्रज्ञिलः ३० । इति शब्दरत्नावली ॥ व्यक्तः ३१ प्राप्त- रूपः ३२ सुरूपः ३३ अभिरूपः ३४ बुधानः ३५ कवितावेदी ३६ वप्ता ३७ विदितः ३८ कविः २९ । इति जटाधरः ॥ (यथा, नवरत्ने । १ । “अत्युग्रं स्तुतिभिर्गुरुं प्रणतिभिर्मूर्खं कथाभि- र्बुधं विद्याभी रसिकं रसेन सकलं शीलेन कुर्य्या- द्वशम् ॥”)
नवग्रहान्तर्गतचतुथग्रहः । स च बृहस्पति- भार्य्यातारागर्भे चन्द्राज्जातः । तत्पर्य्यायः । रौहिणेयः २ सौम्यः ३ । इत्यमरः । १ । ३ । २६ । हेमा ४ वित् ५ ज्ञः ६ बोधनः ७ इन्दुपुत्त्रः ८ । इति ज्योतिस्तत्त्वम् ॥ * ॥
तस्य जन्मादि- वृत्तान्तं यथा । “मदावलेपाच्च सकलदेवगुरो- र्बृहस्पतेस्तारां नाम पत्नीं जहार । बहुशस्तु बृहस्पतिचोदितेन भगवता ब्रह्मणा चोद्यमानः सकलैश्च देवर्षिभिर्याच्यमानोऽपि न मुमोच । तस्य बृहस्पतिद्बेषादुशना पार्ष्णिग्राहोऽभूत् । अङ्गिरसश्च सकाशादुपलब्धविद्यो भगवान् रुद्रो बृहस्पतेः साहाय्यमकरोत् । यतश्चोशना ततोहि जम्भकुम्भाद्याः समस्ता एव दैत्यदानव- निकाया महान्तमुद्यमञ्चक्रुः । बृहस्पतेरपि सकलदेवसैन्यसहायः शक्रोऽभवत् । एवं तयो रतीवोग्रः संग्रामस्तारानिमित्तस्तारकामय- नामाभवत् । ततश्च समस्तशस्त्राण्यसुरेषु रुद्र- पुरोगमा देवाः देवेषु चाशेषदानवा मुमुचुः । एवञ्च देवासुराहवक्षोभक्षुब्धहृदयमशेषमेव जगद् ब्रह्माणं शरणं जगाम । ततश्च भगवान- प्युशनसं शङ्करमसुरान् देवांश्च निवार्य्य बृह- स्पतये तारामदात् । ताञ्चान्तःप्रसवामवलोक्य बृहस्पतिराह । नैष मम क्षेत्रे भवत्यान्यसुतो धार्य्यत उत्सृजैनं अलमलमतिधार्ष्ट्येनेति । सा च तेनैवमुक्ता पतिव्रता भर्त्तृवचनात्तमिषी- कास्तम्बे गर्भमुत्सर्ज । स चोत्सृष्टमात्र एवाति- तेजसा देवानां तेजांस्याचिक्षेप । बृहस्पति- मिन्दुञ्च तस्य कुमारस्यातिचारुतया साभि- लाषौ दृष्ट्वा देवाः समुत्पन्नसन्देहास्तारां पप्रच्छुः । सत्यं कथयास्माकमतिसुभगे ! कस्या- यमात्मजः सोमस्याथ बृहस्पतेरित्युक्तापि सा तारा ह्निया न किञ्चिदुवाच । बहुशोऽप्य- भिहिता यदासौ देवेभ्यो नाचचक्षे ततः स कुमारस्तां शप्तुमुद्यतः प्राह च । दुष्टाम्ब ! कस्मान्मम तातं नाख्यासि । अद्यैव ते अलीक- लज्जावत्यास्तथा शास्तिमयमहं करोमि । यथा नैवमन्याप्यतिमन्थरवचना भविष्यतीति । अथ भगवान् पितामहस्तं कुमारं सन्निवार्य्य स्वयमपृच्छत्ताराम् । कथय वत्से ! कस्याय- मात्मजः सोमस्याथ बृहस्पतेरित्येवमुक्ता लज्जा- जडमाह सोमस्येति । ततः स्फुरदुच्छ्वसिता- मलकपोलकान्तिर्भगवानुडुपतिरालिङ्ग्य कुमारं साधु साधु वत्स ! प्राज्ञोऽसीति बुध इति नाम चक्रे । इति विष्णुपुराणे ४ अंशे ६ अध्यायः ॥ मत्स्यपुराणे चतुर्व्विंशाध्याये विशेषश्चायम् । सूत उवाच । “ततः संवत्सरस्यान्ते द्वादशादित्यसन्निभः । दिव्यपीताम्बरधरः पीताभरणभूषितः ॥ सर्व्वास्त्रशास्त्रविद्बिद्वान् हस्तिशास्त्रप्रवर्त्तकः । राज्ञः सोमस्य पुत्त्रत्वाद्राजपुत्त्रो बुधः स्मृतः ॥ जातमात्रः स तेजांसि सर्व्वाण्येवाक्षिपद्बली । ब्रह्माद्यास्तत्र ते जग्मुर्देवा देवर्षिभिः सह ॥ बृहस्पतिगृहे सर्व्वं जातकर्म्मोत्सवं तदा । पप्रच्छुश्च सुरास्तारां केन जातः कुमारकः ॥ ततः सा लज्जिता तेषां न किञ्चिदवदत्तदा । पुनः पुनस्तदा पृष्टा लज्जयन्ती वराङ्गना ॥ सोमस्येति चिरादाह ततोऽगृह्णाद्बिधुः सुतम् । बुध इत्यकरोन्नाम प्रादाद्राज्यञ्च भूतले ॥ अभिषेकं ततः कृत्वा प्रधानमकरोद्विभुः । ग्रहसाम्यं प्रदायाथ ब्रह्मा ब्रह्मर्षिसंयुतः ॥ पश्यतां सर्व्वभूतानां तत्रैवान्तरधीयत । इलोदरे च धर्म्मिष्ठं बुधः पुत्त्रमजीजनत् ॥” अन्यत् सर्व्वमाख्यानमेकमेव ॥ * ॥
अस्य वर्णः दूर्व्वाश्यामः । स च उत्तरदिङ्नपुंसकशूद्र- जात्यथर्व्ववेदरजोगुणमिश्रितरसमिथुनराशिम- रकतमणिमगधदेशानामधिपतिः । अस्य मित्रं आदित्यः शुक्रश्च । अस्य शत्रुः शशी । अस्य राशिभोगः अष्टादश दिनानि । इति ज्योति- स्तत्त्वम् ॥ * ॥
स तु मगधदेशोद्भवः । अत्रि- वंशजातः । द्व्यङ्गुलदीर्घः । पीतवर्णः । वैश्य- जातिः । चतुर्भुजः । वामोर्द्ध्वक्रमतश्चर्म्मवर- खड्गगदाधारी । सूर्य्यास्यः । सिंहवाहनः । सौम्यः । पीतवस्त्रः । अस्याधिदेवता नारायणः । प्रत्यधिदेवता विष्णुः । धनिष्ठानक्षत्रयुक्तद्वादश्यां जातः । इति ग्रहयज्ञतत्त्वम् ॥ * ॥
स च ग्राम- चारी । शुभग्रहः । नीलवर्णः । सुवर्णद्रव्य- स्वामी । वर्त्तुलाकृतिः । शिशुः । इष्टकागृह- सञ्चारी । वातपित्तकफात्मकः । स्त्रीग्रहः । प्रातःकाले प्रबलः । पक्षिस्वामी । सकलरस- प्रियश्च । इति ज्योतिषम् । अस्य वारे जात- फलं यथा, —
“गुणी गुणज्ञः कुशलः क्रियादौ विलासशाली मतिमान् विनीतः । मृदुस्वभावः कमनीयमूर्त्ति- र्बुधस्य वारे प्रभवो मनुष्यः ॥” इति कोष्ठीप्रदीपः ॥ * ॥
सूर्य्यवंशीयराजविशेषः । यथा, —
“तस्मात् कृतिरथस्तस्य देवामीढस्ततो बुधः । बुधाच्च विबुधश्चैव तस्मान्महाधृतिस्ततः ॥” इत्यग्निपुराणम् ॥ (वेगवतो राज्ञः पुत्त्रः । यथा, भागवते । ९ । २ । ३० । “तत्सुतः केवलस्तस्मात् बन्धुमान् वेगवांस्ततः । बुधस्तस्याभवद् यस्य तृणबिन्दुर्महीपतिः ॥”)


शब्दकल्पद्रुमः

बुध || य ङ औ वेदने । इति कविकल्पद्रुमः ॥ (दिवा०-आत्म०-सक०-अनिट् ।)
य ङ बुध्यते शास्त्रं सुधीः । औ बोद्धा । इति दुर्गादासः ॥ (जागरार्थे अकर्म्मकोऽपि । यथा, रघौ । १० । ६ । “ते च प्रापुरुदन्वन्तं बुबुधे चादिपूरुषः ॥” “आदिपुरुषो विष्णुश्च बुबुधे योगनिद्रां जहौ इत्यर्थः ॥” इति तट्टीका ॥)



Correction: