संस्कृत-शब्दकोशः

बुद्धुद बुध

बुद्बुद

शब्दकल्पद्रुमः

बुद्बुदः || पुं, वर्त्तुलाकारजलविकारः । जलविम्बुकी इति भुड्भुडि इति च ख्यातः । बुद्बुदोऽम्बु- ष्फोट इत्यरुणः । इत्यमरभरतौ ॥ अन्यच्च । “अब्भ्रच्छाया तृणादग्निर्नीचसेवा पथे जलम् । वेश्यारागः खले प्रीतिः षडेते बुद्बुदोपमाः ॥” इति गारुडे १५ अध्यायः ॥ गर्भस्थावयवविशेषः । यथा, —
“पञ्चरात्रेण कलनं बुद्बुदाकारतां व्रजेत् ॥” इति सुखबोधः ॥ (यदुक्तं यथा, —
“प्रथमेऽहनि रेतश्च संयोगात् कललञ्च यत् । जायतेबुद्बुदाकारं शोणितञ्च दशाहनि ॥” इति हारीते शारीरस्थाने प्रथमेऽध्याये ॥)



Correction: