संस्कृत-शब्दकोशः

बुध बुधचार

बुधचक्र

वाचस्पत्यम्

बुधचक्र ||‍ न० बुधस्य राश्यन्तरसञ्चारकाले स्वनक्षत्रस्य मुखादि- स्थानस्थितिभेदेन शुभाशुभमूचके चक्रभेदे “भोगोमुखैकमथ मूर्ध्नि चतुर्षु रोगः षट पाणिभेऽमुखहतं सुखदं श्रुते- ऽत्र । दुःख पदाब्धि सुयशो हृदि सप्त राज्यं नाभी- न्दुभे द्विभ गले निधनं बुधस्य” इति समयामृतम् ।


शब्दकल्पद्रुमः

बुधचक्रं || क्ली (बुधस्य ग्रहविशेषस्य चक्रम् ।)
बधग्रहस्य स्वसञ्चारादष्टादशदिनोत्तरराश्य- न्तरसञ्चारनक्षत्रावधिसप्तविंशतिनक्षत्रघटित- नरशुभाशुभज्ञानार्थनराकारचक्रम् । यथा, —
“भोगो मुखैकमथ मूर्द्ध्नि चतुर्षु रोगः षट्पाणिभे सुखहतं सुखदं श्रुतेऽत्र । दुःखं पदाब्धिसुयशो हृदि सप्तराज्यं नाभीन्दुभे द्बिभगलेति धनं बुधस्य ॥” इति समयामृतम् ॥



Correction: