वाचस्पत्यम्
बुधतात || पु० ६ त० । चन्द्रे शब्दचः ।
शब्दकल्पद्रुमः
बुधतातः || पुं, (बुधस्य ग्रहविशेषस्य तातः पिता ।) चन्द्रः । इति शब्दचन्द्रिका ॥