संस्कृत-शब्दकोशः

बुधरत्न बुधसानु

बुधवार

वाचस्पत्यम्

बुधवार ||‍ पु० ६ त० । बुधपतिकदिवसे दिनपशब्दे ३५ ६२ पृ० दृम्यम्


शब्दकल्पद्रुमः

बुधवारः || पुं, (बुधस्य वारः ।)
बुधग्रहस्य वासरः । यथा, —
“यैः कृता श्रावणे मासि अष्टमी रोहिणी- युता । किं पुनर्बुधवारेण सोमेनापि विशेषतः ॥” इति तिथ्यादितत्त्वम् ॥ (अस्मिन् जातफलं यथा, कोष्ठीप्रदीपे । “गुणी गुणज्ञः कुशलः क्रियादौ- विलासशीलो मतिमान् विनीतः । मृदुस्वभावः कमनीयमूर्त्ति- र्बुधस्य वारे प्रभवो मनुष्यः ॥)



Correction: