संस्कृत-शब्दकोशः

बुध्न्य बुन्ध

बुन्द

वाचस्पत्यम्

बुन्द ||‍ निशामने—भ्वा० उभ० सक० सेट् । बुन्दति ते इरित् अबुदत् अबुन्दीत् । अबुन्दिष्ट । उदित् क्त्वा वेट् । निशामनमालोचनम् प्रणिधानमिति यावत् ।


शब्दकल्पद्रुमः

बुन्द || इर् ञ उ निशामने । (इति कविकल्प- द्रुमः । (भ्वा०-उभ०-सक०-सेट् ।)
पञ्चमस्वरी । इर् अबुन्दीत् । ञ बुन्दति बुन्दते । निशामन- मालोचनं प्रणिधानमिति यावत् । इति दुर्गा- दासः ॥ (यथा, भट्टिः । १४ । ७२ । “सस्रंसे शरबन्धेन दिव्येनेति बुबुन्द सः ॥”)



Correction: