वाचस्पत्यम्
बृ(वृ)ह || वृद्धौ भ्वादि० पर० अक० सेट् ब(व)र्हति अब(व)- रीत् । इरित् इत्येके तेन अबृ(वृ)हदित्यपि । कवि- कल्पद्रुमे बृहधातुमात्रस्य अन्त्यस्थादित्वमुक्तम्” मेदि० “प्रोक्षितं निहते सिक्ते बृहती वसनान्तरे । छन्दोभित्- क्षुद्रवार्त्ताकीवारिधानीषु वाचि च । काण्टकारिभह- त्योश्च” “ब्रह्मतत्त्वतपोवेदे न द्वयोः पुंसी बेधसि” । ऋत्विग्योगभिदोर्विप्रे बन्धनं बधबन्धयोः” । वृहप्रकृति- वृहती ब्रह्मशब्दयोः ओष्ठ्यादितयोक्तत्वादस्य उभया- दित्वम् ।