संस्कृत-शब्दकोशः

बोधन बोधनीय

बोधनी

वाचस्पत्यम्

बोधनी ||‍ स्त्री बोध्यतेऽनया अत्र वा बुध—णिच्—करणे आधारे वा ल्युट् । १ पिप्पल्यां तया हि मूर्च्छ्रितो बोध्यते । २ का- र्त्तिकशुक्लैकादश्यां तत्र हि हरेर्बोधनम् । “शयनीबोधनी- मध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन” इति तिथ्यादित० । “तावद्गर्जन्ति ती- र्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णो- र्यावन् नायाति बोधनी” हरिभक्तिविलासे पद्मपु० वचनम् ।


शब्दकल्पद्रुमः

बोधनी || स्त्री (बुध् + भावे ल्युट् । ङीष् । बोधः । (बोध्यतेऽनया । बुध् + णिच् + करणे ल्युट् । अनया हि मूर्च्छितो बोध्यते अतोऽस्य तथा- त्वम् ।)
पिप्पली । इति मेदिनी ॥ (बुध्यतेऽस्याम् । बुध् + अधिकरणे ल्युट् । स्त्रियां ङीप् । अस्यां हि योगनिद्राया हरेः प्रबोधनात्तथात्वम् ।)
कार्त्तिकशुक्लैकादशी । सा तु उत्थानैकादशी । यथा, —
“शयनीबोधनीमध्ये या कृष्णैकादशी भवेत् । सैवोपोष्या गृहस्थेन नान्या कृष्णा कदाचन ॥” इति तिथ्यादितत्त्वम् ॥ अपि च । “तावद्गर्ज्जन्ति तीर्थानि वाजिमेधादयो मखाः । मथुरायां प्रिया विष्णोर्यावन्नायाति बोधनी ॥” इति हरिभक्तिविलासे पद्मपुराणवचनम् ॥



Correction: