संस्कृत-शब्दकोशः

बोधान बोधित

बोधि

वाचस्पत्यम्

बोधि ||‍ पु० बुध—इन् । १ समाधिभेदे २ पिप्पलवृक्षे ३ बुद्धभेदे मेदि० ४ बोधे त्रिका० । ५ ज्ञातरि त्रि० ।


शब्दकल्पद्रुमः

बोधिः || पुं, (बुध + “सर्व्वधातुभ्य इन् ।” ४ । ११७ । इति इन् ।)
समाधिभेदः । पिप्पलवृक्षः । इति मेदिनी । धे, ११ ॥ (यथास्य पर्य्यायः । “पिप्पलो बोधिरश्वत्थश्चैत्यवृक्षो गजाशनः ॥” इति वैद्यकरत्नमालायाम् ॥)
बोधः । इति त्रिकाण्डशेषः ॥ ज्ञातरि, त्रि । इत्युणादिकोषः ॥



Correction: