वाचस्पत्यम्
ब्र(व्र)ह्मकुण्ड || न० ब्रह्मनिर्मितं कुण्डम् शा० त० । सरोवरभेदे तदाविर्भवकथा । “पाण्डुनाथस्योत्तरस्यां व्रह्मकुण्डाह्वयं सरः । ब्रह्मणा निर्मिनं पूर्वं स्नानाय स्वर्गवासिनाम् । आयामेन शत- घ्यामं विस्तीर्णेन तदर्द्धकम् । सर्वपापहरं पुण्यं देव- लोकात् समागतम्” तत्र स्नानमन्त्रः । “कमण्डलु समु- ड्भूतः ब्रह्मकुण्डामृतस्रव! । हर मे सर्वपापानि पुण्य स्वर्गञ्च साधय । इत्यनेन तु मन्त्रेण स्नायात् तस्मिन् सरोजले । पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् । ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् । ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः” कालिकापु० ८१ अ० ।
शब्दकल्पद्रुमः
ब्रह्मकुण्डं || क्ली (ब्रह्मणा निर्म्मितं कुण्डं सरो- वरम् ।)
ब्रह्मणा निर्म्मितसरोबरविशेषः । यथा, “पाण्डुनाथस्योत्तण्स्यां ब्रह्मकुण्डाह्वयं सरः । ब्रह्मणा निर्म्मितं पूर्ब्ब स्नानाय स्वर्गवासिनाम् ॥ आयामेन शतव्यामं विस्तीर्णेन तदर्द्धकम् । सर्व्वपापहरं पुण्यं देवलोकात् समागतम् ॥ तत्र स्नानमन्त्रः । कमण्डलुसमुद्भूत ब्रह्मकुण्डामृतस्रव । ! हर मे सर्व्वपापानि पण्यं स्वर्गञ्च साधय ॥ इत्यनेन तु मन्त्रेण स्नाति तस्मिन् सरोजले । पाण्डुनाथञ्च संपूज्य विष्णुसायुज्यमाप्नुयात् ॥ ब्रह्मकुण्डजले स्नात्वा पूजयित्वा उमापतिम् । ब्रह्मकूटं समारुह्य मुक्तिमेवाप्नुयान्नरः ॥” इति कालिकापुराणे ८१ अध्यायः ॥