वाचस्पत्यम्
ब्र(व्र)ह्मकूर्च || न० “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशे- षतः । पञ्चगव्यं पिषेत् प्रातः ब्र(व्र)ह्मकूर्चमिति स्मृतम्” इत्युक्ते १ पञ्चगव्यपानरूपे व्रतभेदे । २ कुशोदकसहित पञ्चगव्ये च नारसिंहपु० “पञ्चगव्येन देवेशं यः स्नाप- यति भक्तितः । ब्रह्मकूर्चविधानेन विष्णुलोके महीयते” “ब्र(व्र)ह्मकूर्चविधानेन कुशोदकयुक्तेन” देव० प्र० त० रघु० प्रायश्चित्ताङ्ग ब्र(व्र)ह्मकूर्चप्रमाणादि तुलादानादि- पद्धतौ २२६१ पृ० अस्माभिर्दर्शिम् ।
शब्दकल्पद्रुमः
ब्रह्मकूर्च्चं || श्ली, (ब्रह्मणो ब्राह्मणत्वस्य कूर्च्चामव ।)
व्रतविशेषः । यथा । वृद्धशातातपः । “रजस्वले तु ये नार्य्यावन्योन्यं स्पृशतो यदि । सवर्णे पञ्चगव्यन्तु ब्रह्मकूर्च्चमतःपरम् ॥” पञ्चगव्यपानं व्रतरुपं तेनोपवासः । ब्रह्मकूर्च्च- माह जावालः । “अहोरात्रोषितो भूत्वा पौर्णमास्यां विशेषतः पञ्चगव्यं पिबेत् प्रातर्ब्रह्मकूर्च्चविधिः स्मृतः ॥” तदशक्तौ पुराणैकं दातव्यम् । इति प्रायश्चित्त- तत्त्वम् ॥ (ब्रह्मपुराणेऽपि अस्य व्यवस्था यथा । नरस्तु चतुर्द्दश्यां पूर्णिमायाममावास्यायाम्बा पञ्चगव्यं हविष्यान्नं वा भक्षयेत् । यस्तु पौर्ण- मासीषु ब्रह्मकूच्चें कुर्य्यात् तस्य सर्व्वपापक्षयो भवेत् । यस्तु मासेन द्बिःकुर्य्यात् स यथेष्टाङ्गति- माप्नुयात् ॥)