वाचस्पत्यम्
ब्र(व्र)ह्मगिरि || पु० कामाख्यानिलयपूर्वस्यां स्थिते गिरिभेदे “ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् । तत्- पूर्वभागे वसति ब्रह्मा ब्रह्मगिरिः पुनः” कालिकापु० ८१ अ०
शब्दकल्पद्रुमः
ब्रह्मगिरिः || पु, (ब्रह्मणो गिरिः पर्व्वतः ।)
ब्रह्म- शैलः । इति शब्दरत्नावली ॥ (नीलकूटाभि- धेयकामाख्यानिलयस्य पूर्ब्बभागे स्थितोऽयम् ।)
यथा, कालिकापुराणे ८१ अध्याये । “ततस्तु नीलकूटाख्यं कामाख्यानिलयं परम् । तत्पूर्ब्बभागे वसति ब्रह्मा ब्रह्मगिरिं पुनः ॥”