वाचस्पत्यम्
ब्र(व्र)ह्मचारिन् || पु० ब्र(व्र)ह्म वेदस्तद्ग्रहणार्थं चरति व्रत- भेदम् चर + णिनि । १ उपनयनानन्तरमाद्याश्रमयुते द्विजातौ उपचारात् २ तदाश्रमे च । तस्य कर्त्तव्यादिकं मनूक्तं ब्र(व्र)चर्य्यशब्दे दर्शितम् ।
शब्दकल्पद्रुमः
ब्रह्मचारी || [न्] पुं, (ब्रह्म ज्ञानं तपो वा आच- रति अर्जयत्यवश्यम् । ब्रह्म + चर + आवश्यके णिनिः ।)
प्रथमाश्रमी । इति भरतः ॥ उपनयनानन्तरं नियमं कृत्वा गुरोः सन्निधौ स्थित्वा साङ्गवेदाध्ययनं करोति यः । स द्बिविधः । उपकुर्व्वाणः नैष्ठिकश्च । तस्य नियमा यथा, —
“यद्यस्य विहितं चर्म्म यत् सूत्रं या च मेखला । यो दण्डो यच्च वसनं तत्तदस्य व्रतेष्वपि ॥ सेवते मांस्तु नियमान् ब्रह्मचारी गुरौ वसन् । संनियम्येन्द्रियग्रामं तपोवृद्ध्यर्थमात्मनः ॥ नित्यं स्नात्वा शुचिः कुर्य्याद्देवर्षिपितृतर्पणम् । देवताभ्यर्च्चनञ्चैव समिदाधानमेव च ॥ वर्जयेन्मधु मांसञ्च गन्धं माल्यं रसान् स्त्रियः । शुक्तानि यानि सर्व्वाणि प्राणिनाञ्चैव हिंसनम् ॥ अभ्यङ्गमञ्जनञ्चाक्ष्णोरुपानच्छत्रधारणम् । कामं क्रोधञ्च लोभञ्च नर्त्तनं गीतवादनम् ॥ द्यूतञ्च जनवादञ्च परिवादं तथानृतम् । स्त्रीणाञ्च प्रेक्षणालम्भमुपघातं परस्य च ॥ एकः शयीत सर्व्वत्र न रेतः स्कन्दयेत् क्वचित् । कामाद्धि स्कन्दयन्रेतो हिनस्ति व्रतमात्मनः ॥ स्वप्ने सिक्त्वा ब्रह्मचारी द्विजः शुक्रमकामतः । स्नात्वार्कमर्च्चयित्वा त्रिः पुनर्मामितृचं जपेत् ॥ उदकुम्भं सुमनसो गोशकृन्मृत्तिकाकुशान् । आहरेद्यावदर्थानि भैक्षञ्चाहरहश्चरेत् ॥ वेदयज्ञैरहीनानां प्रशस्तानां स्वकर्म्मसु । ब्रह्मचार्य्याहरेद्भैक्षं गृहेभ्यः प्रयतोऽन्वहम् ॥ गुरोः कुले न भिक्षेत न ज्ञातिकुलबन्धुषु । अलाभे त्वन्यगेहानां पूर्ब्बं पूर्ब्बं विवर्ज्जयेत् ॥ सर्व्वं वापि चरेद्ग्रामं पूर्ब्बोक्तानामसम्भवे । नियम्य प्रयतो वाचमभिशस्तांस्तु वर्ज्जयेत् ॥ दूरादाहृत्य समिधः सन्निदध्याद्विहायसि । सायं प्रातश्च जुहुयात् ताभिरग्निमतन्द्रितः ॥ अकृत्वा भैक्षचरणमसमिध्य च पावकम् । अनातुरः सप्तरात्रमवकीर्णिव्रतञ्चरेत् ॥ भैक्षेण वर्त्तयेन्नित्यं नैकान्नादी भवेद्व्रती । भैक्षेण व्रतिनो वृत्तिरुपवाससमा स्मृता ॥ व्रतवद्देवदैवत्ये पित्रे कर्म्मण्यथर्षिवत् । काममभ्यर्थितोऽश्नीयाद्व्रतमस्य न लुप्यते ॥ ब्राह्मणस्यैव कर्म्मैतदुपदिष्टं मनीषिभिः । राजन्यवैश्ययोस्त्वेवं नैतत् कर्म्म विधीयते ॥ चोदितो गुरुणा नित्यमप्रचोदित एव वा । कुर्य्यादध्ययने यत्नमाचार्य्यस्य हितेषु च ॥ शरीरञ्चैव वाचञ्च बुद्धीन्द्रियमनांसि च । नियम्य प्राञ्जलिस्तिष्ठेद्वीक्षमाणो गुरोर्मुखम् ॥ नित्यमुद्धृतपाणिः स्यात् साध्वाचारः सुसयतः । आस्यतामिति चोक्तः सन्नासीताभिमुखं गुरोः ॥ हीनान्नवस्त्रवेशः स्यात् सर्व्वदा गुरुसन्निधौ । उत्तिष्ठेत् प्रथमञ्चास्य चरमञ्चैव संविशेत् ॥ प्रतिश्रवणसम्भाषे शयानो न समाचरेत् । नासीनो न च भुञ्जानो न तिष्ठन्न पराङ् मुखः ॥ आसीनस्य स्थितः कुर्य्यादभिगच्छंस्तु तिष्ठतः । प्रत्युद्गम्य त्वाव्रजतः पश्चाद्धावंस्तु धावतः ॥ पराङ्मुखस्याभिमुखो दूरस्थस्येत्य चान्तिकम् । प्रणम्य तु शयानस्य निदेशे चैव तिष्ठतः ॥ नीचं शय्यासनञ्चास्य सर्व्वदा गुरुसन्निधौ । गुरोस्तु चक्षुर्व्विषये न यथेष्टासनो भवेत् ॥ नोदाहरेदस्य नाम परोक्षमपि केवलम् । न चैवास्यानुकुर्व्वीत गतिभाषितचेष्टितम् ॥ गुरोर्यत्र परीवादो निन्दा वापि प्रवर्त्तते । कर्णौ तत्र पिधातव्यौ गन्तव्यं वा ततोऽन्यतः ॥ परीवादात् खरो भवति श्वा वै भवति निन्दकः । परिभोक्ता कृमिर्भवति काटा भवति मत्सरी ॥ दूरस्थो नार्च्चयेदेनं न क्रुद्धो नान्तिके स्त्रियाः । यानासनस्थश्चैवैनमवरुह्याभिवादयेत् ॥ प्रतिवातेऽनुवाते च नासीत गुरुणा सह । असंस्रवे चैव गुरोर्न किञ्चिदपि कीर्त्तयेत् ॥ गोऽश्वोष्ट्रयानप्रासादप्रस्तरेषु कटेषु च । आसीत गुरुणा सार्द्धं शिलाफलकनौषु च ॥ गुरोर्गुरौ सन्निहिते गुरुवद्वृत्तिमाचरेत् । न चानिसृष्टो गुरुणा स्वान् गुरूनभिवादयेत् ॥ विद्यागुरुष्वेतदेव नित्या वृत्तिः स्वयोनिषु । प्रतिषेधत्सु चाधर्म्मान् हितञ्चोपदिशत्स्वपि ॥ श्रेयःसु गुरुवद्वृत्तिं नित्यमेव समाचरेत् । गुरुपुत्त्रेषु चार्य्येषु गुरोश्चैव स्वबन्धुषु ॥ बालः समानजन्मा वा शिष्यो वा यज्ञकर्म्मणि । अध्यापयन् गुरुसुतो गुरुवन्मानमर्हति ॥ उत्सादनञ्च गात्राणां स्नापनोच्छिष्टभोजने । न कुय्याद्गुरुपुत्त्रस्य पादयोश्चावनेजनम् ॥ गुरुवत् प्रतिपूज्याः स्युः सवर्णा गुरुयोषितः । असवर्णास्तु संपूज्याः प्रत्युत्थानाभिवादनैः ॥ अभ्यञ्जनं स्नापनञ्च गात्रोत्सादनमेव च । गुरुपत्न्या न कार्य्याणि केशानाञ्च प्रसाधनम् ॥ गुरुपत्नी तु युवतिर्नाभिवाद्येह पादयोः । पूर्णविंशतिवर्षेण गुणदोषौ विजानता ॥ स्वभाव एव नारीणां नराणामिह दूषणम् । अतोऽर्थान्न प्रमाद्यन्ति प्रमदासु विपश्चितः ॥ अषिद्बांसमलं लोके विद्बांसमपि वा पुनः । प्रमदा ह्युत्पथं नेतुं कामक्रोधवशानुगम् ॥ मात्रा स्वस्रा दुहित्रा वा न विविक्तासनो भवेत् । बलवानिन्द्रियग्रामो विद्वांसमपि कर्षति ॥ कामन्तु गुरुपत्नीनां युवतीनां युवा भुवि । विधिवद्वन्दनं कुर्य्यादसावहमितिब्रुवन् ॥ विप्रोष्य पादग्रहणमन्वहञ्चाभिवादनम् । गुरुदारेषु कुर्व्वीत सतां धर्म्ममनुस्मरन् ॥ यथा खनन् खनित्रेण नरो वार्य्यधिगच्छति । तथा गुरुगतां विद्यां शुश्रूषुरधिगच्छति ॥ मुण्डो वा जटिलो वा स्यादथवा स्याच्छिखा- जटः । नैनं ग्रामेऽभिनिम्लोचेत् सूर्य्यो नाभ्युदियात् क्वचित् ॥ तञ्चेदभ्युदियात् सूर्य्यः शयानं कामचारतः । निम्लोचेद्बाप्यविज्ञानाज्जपन्नुपवसेद्दिनम् ॥ सूर्य्येण ह्यभिनिर्मुक्तः शयानोऽभ्युदितश्च यः । प्रायश्चित्तमकुर्व्वाणो युक्तः स्यान्महतैनसा ॥ आचम्य प्रयतो नित्यमुभे सन्ध्ये समाहितः । शुचौ देशे जपन् जप्यमुपासीत यथाविधि ॥” इति मानवे । २ । १७४-२२२ ॥ अपि च । श्रीऔर्व्व उवाच । “बालः कृतोपनयनो वेदाहरणतत्परः । गुरुगेहे वसेद्भूप ! ब्रह्मचारी समाहितः ॥ शौचाचारवता तत्र कार्य्यं शुश्रूषणं गुरोः । ब्रतानि चरता ग्राह्या वेदाश्च कृतबुद्धिना ॥ उभे सन्ध्ये रविं भूप ! तथैवाग्निं समाहितः । उपतिष्ठेत्तथा कुर्य्याद्गुरोरप्यभिवादनम् ॥ स्थिते तिष्ठेद्व्रजेद्याति नीचैरासीत चासति । शिष्यो गुरौ नृपश्रेष्ठ ! प्रतिकूलं न संभजेत् ॥ तेनैवोक्तः पठेद्वेदं नान्यचित्तः पुरःस्थितः । अनुज्ञातञ्च भिक्षान्नमश्नीयाद्गुरुणा ततः ॥ अवगाहेदपः पूर्ब्बमाचार्य्येणावगाहिताः । समिज्जलादिकञ्चास्य कल्यं कल्यमुपानयेत् ॥ गृहीतग्राह्यवेदश्च ततोऽनुज्ञामवाप्य वै । गार्हस्थ्यमावसेत् प्राज्ञो निष्पन्नगुरुनिष्कृतिः ॥” इति विष्णुपुराणे । ३ । ९ । १-७ ॥ अपि च । गारुडे ४९ अध्याये । “भिक्षाचर्य्याथ शुश्रूषा गुरोः स्वाध्याय एव च । सन्ध्याकर्म्माग्निकार्य्यञ्च धर्म्मोऽयं ब्रह्मचारिणः ॥” स तु द्बिविधः । यथा, कौर्म्मे २ अध्याये । “ब्रह्मचार्य्युपकुर्व्वाणो नैष्ठिको ब्रह्मतत्परः । योऽधीत्य विधिवद्वेदान् गृहस्थाश्रममाव्रजेत् ॥ उपकुर्व्वाणको ज्ञेयो नैष्ठिको मरणान्तिकः ।” (गन्धर्व्वविशेषः । यथा महाभारते । १ । १२३ । ५५ । “ब्रह्मचारी बहुगुणः सुवर्णश्चेति विश्रुतः । विश्वावसुर्भूमन्युश्च सुचन्द्रश्च शरुस्तथा ॥”)