संस्कृत-शब्दकोशः

ब्रह्मजीविन् ब्रह्मज्ञान

ब्रह्मज्ञ

वाचस्पत्यम्

ब्र(व्र)ह्मज्ञ ||‍ त्रि० ब्रह्म जानाति ज्ञा—क । १ ब्रह्मवेत्तरि २ विष्णौ पु० “ब्रह्मज्ञो ब्राह्मणप्रियः” विष्णु स० ।


शब्दकल्पद्रुमः

ब्रह्मज्ञः || त्रि (ब्रह्मजानातीति । ब्रह्म + ज्ञा + क ।)
ब्रह्मवेत्ता । यथा, —
“स ब्रह्मज्ञः स वेदज्ञः सोऽग्निहोत्री स दीक्षितः । चीनाचारक्रमाचारैर्यो यजेत्तारिणीं नरः ॥” इति चीनाचारप्रयोगविधिः ॥


शब्दकल्पद्रुमः

ब्रह्मज्ञः || पुं, (ब्रह्म जानातीति । ब्रह्म + ज्ञा + क ।)
श्रीगोपालः । यथा, —
“वाग्दाता वाक्प्रदो वाणीनाथो ब्राह्मण- रक्षकः । ब्रह्मज्ञो ब्रह्मकृत् ब्रह्मा ब्रह्मकर्म्मप्रकाशकः ॥” इति नारदपञ्चरात्रे गोपालसहस्रनामस्तोत्रे ८ अध्यायः ॥ (विष्णुः । यथा महाभारते । १३ । १४९ । ८४ । “व्रह्मविद् ब्राह्यणो ब्रह्मी ब्रह्मज्ञो ब्राह्मणप्रियः ॥” कार्त्तिकेयः । यथा, महाभारते । ३ । २३१ । ११ । “ब्रह्मण्यो वै ब्रह्मजो ब्रह्मवित्त्वं ब्रह्मशेषो ब्रह्मवतां वरिष्ठः । ब्रह्मप्रियो ब्राह्मणसव्रती त्वं ब्रह्मज्ञो वै ब्राह्मणानाञ्च नेता ॥”)



Correction: