वाचस्पत्यम्
ब्र(व्र)ह्मतीर्थ || ६ अत० । १ पुष्करमूले राजनि० २ पुष्करतीर्थे च । ३ तीर्थभेदे यत्र स्नाने “तत्र वर्णावरः स्नात्वा ब्राह्मण्य लभते नरः । ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम्” भा० व० ८३ अ० । फलमुक्तम् ।
शब्दकल्पद्रुमः
ब्रह्मतीर्थं || क्ली (ब्रह्यणस्तीर्थम् ।)
पुष्करमूलम् । इति राजनिर्घण्टः ॥ पुष्करतीर्थञ्च ॥ (तत्र स्नानफलम् । यथा, महाभारते । ३ । ८३ । १०५ । “ततो गच्छेत राजेन्द्र ! ब्रह्मणस्तीर्थमुत्तमम् । तत्र वर्णावरः स्नात्वा ब्राह्मण्यं लभते नरः । ब्राह्मणश्च विशुद्धात्मा गच्छेत परमां गतिम् ॥”)