वाचस्पत्यम्
ब्र(व्र)ह्मदण्ड || पु० ब्रह्मणो दण्डः । १ ब्रह्मणदण्डे २ अभि- शापरूपे दण्डे “ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये” ति० त० षोडशीश्राद्धमन्त्रः । ३ वसिष्ठसिद्धयष्टिरूपे दण्डे च । “धिग्बलं क्षत्रियबलं ब्रह्मतेजो बलं परम् । एकेन ब्रह्मदण्डेन बहवो नाशिता मम” रामा० अयो० विश्वामित्रवाक्यम् । ४ ब्राह्मणयष्टिवृक्षे शब्दच० । ५ विप्रल यष्टौ च । ६ केतुभेदे वृ० स० ११ अ० । केतुशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
ब्रह्मदण्डः || पुं, (ब्रह्मणो ब्राह्मणस्य दण्डः सिद्ध- यष्टिः ।)
ब्राह्मणयष्टिका । इति शब्दचन्द्रिका ॥ वशिष्ठस्य सिद्धयष्टिः । यथा, —
“धिग्वलं क्षत्त्रियबलं ब्रह्मतेजो बलं बलम् । एकेन ब्रह्मदण्डेन बहवो नाशिता मम ॥” इति रामायणे विश्वामित्रवाक्यम् ॥ (ब्रह्मणो ब्राह्मणस्य शापरूपो दण्डः ।)
ब्रह्म- शापः । यथा, —
“ब्रह्मदण्डहता ये च विद्युदग्निहताश्च ये । तेषामुद्धरणार्थाय इमं पिण्डं ददाम्यहम् ॥” इति तिथ्यादितत्त्वम् ॥ (अयं हि राजधर्म्मे शत्रुनाशनोपायः । यदुक्तं महाभारते । २ । ५ । १२३ । “कच्चिदस्त्राणि सर्व्वाणि ब्रह्मदण्डश्च तेऽनघ ! । विषयोगास्तथा सर्व्वे विदिताः शत्रुनाशनाः ॥”)