वाचस्पत्यम्
ब्र(व्र)ह्मदत्त || इक्षाकुवंश्ये नृपभेदे २ त० । २ हिरण्यगर्भेण दत्ते त्रि० ४ त० । ३ विप्राय दत्ते त्रि० । ४ शुकदेवस्य कन्यायां कृत्वीसमाख्यायां अणुहस्य पुत्रभेदे पु० तत्कथा हरिवं० ११ अ० दृश्या ।
शब्दकल्पद्रुमः
ब्रह्मदत्तः || पुं, इक्ष्वाकुवंशीयराजविशेषः । तत्- पर्य्यायः । ब्रह्मसूनुः २ । इति हेमचन्द्रः । ३ । ३५८ ॥ (यथा महाभारते । २ । ८ । २० । “ब्रह्मदत्तस्त्रिगर्त्तश्च राजोपरिचरस्तथा ॥” स्वनामख्यातो नीपपुत्त्रः । यथा, भागवते । ९ । २१ । २५ । पारस्य तनयो नीपस्तस्य पुत्त्रशतं त्वभूत् । स कृत्व्यां शुककन्यायां ब्रह्मदत्तमजीजनत् ॥” ब्रह्मणा दत्त इति विग्रहे वाच्यलिङ्गः । यथा, रामायणे । ३ । १८ । ३८ । “अमोघा इषवश्चेमे ब्रह्मदत्ताः सुतेजसः । दत्ता मह्यं महेन्द्रेण तूणौ चाक्षयसायकौ ॥”)