वाचस्पत्यम्
ब्र(व्र)ह्मपादप || पु० ब्र(व्र)ह्मणः प्रियः वैदिककर्मयोग्यत्वात् विप्रब्र(व्र)ह्मचारिधार्य्यदण्डार्थत्वाद्वा ब्रह्मनामकत्वात् वा पादपः । पलाशवृक्षे हेमच० । “पलाशो वै ब्रह्म” शत० ब्रा० पलाशवृक्षशब्दे दृश्यम् ।
शब्दकल्पद्रुमः
ब्रह्मपादपः || पुं, (ब्रह्मा तदाख्यया प्रसिद्धः पादपः ।)
पलाशवृक्षः । इति हेमचन्द्रः । ४ । २०२ ॥