वाचस्पत्यम्
ब्र(व्र)ह्मयोनि || पु० ब्रह्मणो योनिरुतपत्तिरत्र । १ ब्रह्मगिरौ शब्दर० । २ ब्रह्मप्राप्त्युपायज्ञाननिष्ठायाञ्च “ब्राह्मणा ब्रह्म योनिस्थाः” मनुः ३ ब्रह्मोत्पन्ने त्रि० । ४ सरस्वत्यां स्त्री ङिप् । “सरस्वत्यास्तु तीरे यः संत्यजेदात्मनस्तनुम् । पृथूदकं जप्यपरो नैनं श्रोमरणं लभेत् । तत्रैव ब्रह्म योन्यस्ति ब्रह्मणा यत्र निर्मिता । पृथूदकं समाश्रित्य सर स्यत्यास्तटे स्थितः । चतुर्वणस्य सृष्ट्यर्थमात्मज्ञानपरो- ऽभवत् । तस्याभिधा यतः स्तुष्ठिर्ब्रह्मणोऽव्यक्र्तजन्मनः । सुखतो ब्राह्मणा जाता बाहुभ्यां क्षत्रियास्तथा । ऊरु- भ्यां वैश्यजातीयाः पद्भ्यां शूद्रास्ततोऽभवन् । चातु- र्वर्ण्यं ततो दृष्ट्वा आश्रमस्थान् सुतांस्ततः । एवं प्रति- ष्ठितं तीर्थं ब्रह्मवोनीति संज्ञितम् । तत्र स्नात्वा मुक्ति- कामः पुनर्योनिं न पश्यति” वामनपु० ३८ अ० उक्ते तीर्थभेदे स्त्री वा ङीप् ।
शब्दकल्पद्रुमः
ब्रह्मयोनिः || पुं, (ब्रह्मणो योनिरुत्पत्तिस्थानम् ।)
ब्रह्मगिरिः । इति शब्दरत्नावली ॥ (ब्रह्मप्राप्ति- कारणब्रह्मध्यानम् । यथा मनुः । १० । ७४ । “ब्राह्मणा ब्रह्मयोनिस्था ये स्वकर्म्मण्यवस्थिता । ते सम्यगुपजीवेषुः षट् कर्म्माणि यथाक्रमम् ॥” “ये ब्राह्मणा ब्रह्मप्राप्तिकारणब्रह्मध्याननिष्ठाः स्वकर्म्मानुष्ठाननिरताश्च ते षट्कर्म्माणि वक्ष्य- माणान्यध्यापनादीनि क्रमेण सम्यगनुतिष्ठेषुः ॥” इति तट्टीकायां कुल्लूकभट्टः ॥ अपरस्य ब्रह्मणो योनिरुत्पत्तिकारणम् । यद्वा ब्रह्म सत् योनिः सर्व्वेषामुत्पत्तिकारकं ब्रह्म । यथा, मुण्डकोप- निषदि । ३ । १ । ३ ॥ “यदा पश्यः पश्यते रुक्मवर्णम् कर्त्तारमीशं पुरुषं ब्रह्मयोनिम् ॥” तीर्थविशेषः । यथा महाभारते । ३ । ८३ । १३१ । “ब्रह्मयोनिं समासाद्य शुचिः प्रयतमानसः । तत्र स्नात्वा नरव्याघ्र ! ब्रह्मलोकं प्रपद्यते ॥” ब्रह्मा योनिरुत्पत्तिकारणं यस्य इति विग्रहे वाच्यलिङ्गः । यथा रघौ । १ । ६४ । “त्वयैवं चिन्त्यमानस्य गुरुणा ब्रह्मयोनिना । सानुबन्धा कथं न स्युः सम्पदो मे निरापदः ॥” यथा च मार्कण्डेये । २३ । ३० । जगद्धात्रीमहं देवी मारिराधयिषुः शुभाम् । स्तोष्ये प्रणम्य शिरसाब्रह्मयोनिं सरस्वतीम् ॥”)