वाचस्पत्यम्
ब्र(व्र)ह्मर्षि || पु० ब्र(व्र)ह्मा विप्रः वतुर्मुखतुक्ल्यो वा ऋषिः वेदस्य वा ऋषिः स्मर्त्ता । ब्रह्मतुल्येषु वशिष्ठादिषु १ वेदस्म- र्तृषु २ ऋषिषु हेमच० ।
शब्दकल्पद्रुमः
ब्रह्मर्षिः || पुं, (ब्रह्मा ब्राह्मणः ऋषिः । यद्बा, ब्रह्म वेदं परब्रह्म वा ऋषति वेत्ति इति । वशि- ष्ठादिमुनिगणः । इति हेमचन्द्रः ॥ (यथा, रामायणे । १ । ६३ । २० — २१ । “ब्रह्मणस्तु वचः श्रुत्वा विश्वामित्रस्तपोधनः । प्राञ्जलिः प्रणतो भूत्वा प्रत्युवाच पितामहम् ॥ ब्रह्मर्षिशब्दमतुलं स्वार्जितैः कर्म्मभिः शुभैः । यदि मे भगवन्नाह ततोऽहं विजितेन्द्रियः ॥” तथा च महाभारते । १३ । १९ । ३७ । “ततो वैश्रवणोऽभ्येत्य अष्टावक्रमनिन्दितम् । विधिवत् कुशलं पृष्ट्वा ततो ब्रह्मर्षिमब्रवीत् ॥”)