शब्दकल्पद्रुमः
ब्रह्मवद्यं || क्ली (ब्रह्म वेदस्तस्य वदनम् । “वद सुपि क्यप् च ।” १३ । १ । १०६ । इति भावे यत् ।) ब्रह्मणो वाक्यम् । इति ल्यप्रकरणे मुग्धबोधटीकायां दुर्गादासः ॥