संस्कृत-शब्दकोशः

ब्रह्मवद्या ब्रह्मवर्चस्विन्

ब्रह्मवर्चस

वाचस्पत्यम्

ब्र(व्र)ह्मवर्चस ||‍ न० ब्रह्मणा वेदाध्ययनेन वर्चः अच् समा० । वेदाध्ययनजनिते तेजसि “तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मचर्वसम्” जटा० । “ब्रह्मवर्चसकामः स्तुवीत” ताण्ड्य० व्रा० २ । ५ । २ “ब्रह्मवर्चसकामस्य कुर्य्यात् विप्रस्य पञ्चमे” मनुः तदस्यास्ति इनि । ब्रह्मवर्चसिन् तदयुते त्रि० “ब्रह्मबर्चस्य- न्नादो भवति” छा० उ० । “वृत्तस्वाध्यायजं तेजः ब्रह्म- वर्चसम्” शाङ्गरभाष्यम् ।


शब्दकल्पद्रुमः

ब्रह्मवर्च्चसं || क्ली (ब्रह्मणो वेदस्य तपसो वा वर्च्च- स्तेजः । “ब्रह्महस्तिभ्यां वर्च्चसः ।” ५ । ४ । ७८ । इति अच् ।)
ब्राह्मणस्य वृत्ताध्ययनर्द्धिः । इत्यमरः । २ । ७ । ३९ ॥ अस्य टीका । वेद- बोधितस्याचारस्य परिपालनं वृत्तम् । व्रत- ग्रहणपूर्ब्बकं गुरुमुखेन वेदाभ्यासोऽध्ययनम् । तयोरृद्धिस्तत्परिपालनकृतस्तेजस उपचयो ब्रह्मवर्च्चसं स्यात् । ब्रह्महस्तिराजेति अः । इति भरतः ॥ तपःस्वाध्यायजं यच्च तेजस्तु ब्रह्मवर्च्च- सम् । इति जटाधरः ॥ (तथा च मनुः । ४ । ९४ । “ऋषयो दीर्घसन्ध्यत्वाद्दीर्घमायुरवाप्नुयुः । प्रज्ञां यशश्च कीर्त्तिञ्च ब्रह्मवर्च्चसमेव च ॥”)



Correction: