वाचस्पत्यम्
ब्र(व्र)ह्मविद्या || स्त्री ६ त० । शुद्धचैतन्यात्मकस्य ब्रह्मण आत्माऽभेदेन ज्ञाने ।
शब्दकल्पद्रुमः
ब्रह्मविद्या || स्त्री (ब्रह्मणो ब्रह्मविषयिणी या विद्या ।)
ब्रह्मज्ञानम् । यथा, —
“न्यायागतधनः शान्तो ब्रह्मविद्यापरायणः । स्वधर्म्मपालको नित्यं सोऽमृतत्वाय कल्प्यते ॥” इति कौर्म्मे ३ अध्यायः ॥ (दुर्गा । यथा, महाभारते । ६ । २२ । २७ । “त्वं ब्रह्मविद्या विद्यानां महानिद्रा च देहि- नाम् । स्कन्दमातर्भगवति ! दुर्गे कान्तारवासिनि ! ॥”)