संस्कृत-शब्दकोशः

ब्रह्मसुवर्चला ब्रह्मसूत्र

ब्रह्मसू

वाचस्पत्यम्

ब्र(व्र)ह्मसू ||‍ पु० ब्रह्माणं सूतवान् सू—क्विप् । चतुर्व्यूहात्म- कस्य विष्णोर्मूर्त्तिभेदे अनिरुद्धे तस्यावतारभेदे २ उषापतौ च अमरः । “अनिरुद्धात्ततो ब्रह्मा तन्नाभिकमलोद्भवः” ब्रह्मपु० । ब्रह्मणि तपसि सुवति प्रेरयति सू—प्रेरणे क्विप् । तपःप्रवर्त्तके ३ कामे च कामेनैव सर्वतपस्मु प्रेरणात्तस्य तथात्वम् । तदभिमानिदेवे ४ कन्दर्पे च अमरः ।


शब्दकल्पद्रुमः

ब्रह्मसूः || पुं, प्रद्युम्नः । इत्यमरः । १ । १ । २८ ॥ कामदेषः । इत्यमरमाला ॥ अनिरुद्धपक्षे ब्रह्माणं सूतषान् ब्रह्मसूः ॥ (सूङलप्रसवे । “अन्येभ्यो- पीति ।” ३ । २ । १७८ । क्विप् ।)
कल्पान्तरे किलानिरुद्धमूर्त्तेर्भगवतो ब्रह्मा जातः । तथा च ब्रह्मपुराणम् । अनिरुद्धात्ततो ब्रह्मा तन्नाभि- कमलोद्भवः ॥ कामदेवपक्षे । ब्रह्म तपः सुवति प्रेरयति ब्रह्मसूः । सूश प्रेरणे (“अन्येभ्योऽपि दृश्यते ।” ३ । २ । १७८ । इति)
क्विप् । इति भरतः । (कामेनैष सर्व्वतपःसु प्रवर्त्तनादस्य तथात्वम् ॥)



Correction: