वाचस्पत्यम्
ब्र(व्र)ह्मस्व || ६ त० । ब्रह्मस्वामिके धने । “ब्रह्मस्यं वा गुरुस्यं वा देवस्वं वापि यो हरेत् । स कृतघ्न इति ज्ञैयो महा- पापी च भारत! । अवटोदे वसेत् सोऽपि यावदिन्द्रा शतं शतम् । ततो भवेत् सुरापीति ततः शूद्रस्ततः शुचिः” । ब्रह्मवै० प्रकृ० ४९ अ० ।
शब्दकल्पद्रुमः
ब्रह्मस्वं || क्ली (ब्रह्मणो ब्राह्मणस्य स्वं धनम् ।)
ब्राह्मणसम्बन्धि धनम् । तस्य हरणे दोषो यथा, “ब्रह्मस्वं वा गुरुस्वं वा देवस्वं वापि यो हरेत् । स कृतघ्न इति ज्ञेयो महापापी च भारते ॥ अवटोदे वसेत् सोऽपि यावदिन्द्रशतं शतम् । ततो भवेत् सुरापीती ततः शूद्रस्ततः शुचिः ॥” इति ब्रह्मवैवर्त्ते प्रकृतिखण्डे ४९ अध्याय ॥